________________
२५४ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० २०
अः स्वरूपे च द्वेरूपे, कर्करः क्षुद्राश्मा, कर्करी गलन्तिका। " दकनृ० " (उ० २७) इति अके करकः, करकम् , करका च धनोपलः । " किरोङ्को रो लश्च वा" ( उ० ६२), करकः समुद्रः, कलङ्कः । “पतितमि०" (उ० ९८) इति अङ्गे करङ्गः कर्मशीलः । " कूर्चचूर्चा० " ( उ० ११३ ) इति चटि निपातनात् कूर्चम् ; कूर्चम् इव कूर्चकः, कूर्चिका इति च । “ कल्यवि०" ( उ० ११४ ) इति अचे करचः धान्यावपनम् । “किरो लश्च वा” (उ० १४७) इति किति आटे किलाटः, किराटः । “ 'तृकृषि० " ( उ० १५१ ) इति कीटे किरीटम् । “विहडकहोड." ( उ० १७२ ) इति अडे निपातनात् केरडः त्रैराज्ये राजा, क्रोडम् अङ्कः । " जृकत० " ( उ० १७३ ) इति अण्डे करण्डः । " इणुर्विशा० " ( उ० १८२) हात णे कर्णः । " गप०" इति किति अणे किरणः । “ऋक्व० " ( उ० १९६) इति उणे करुणा । " कृशसभ्य ऊर चान्तस्य" ( उ० २९८) इति पे कूपं भ्रूमध्यम् । “ कुशग०" ( उ० ३२९) इति अभे करभः । " कशप० " ( उ० ४१८ ) इति ईरे करीरः; गौरादित्वाद् इयां करीरी । "कृतभ्यामीषः " ( उ० ५५३ ) करीषः । " नाम्युपान्त्य० " ( उ० ६०९) इति किदिः, किरिः सूकरः । “ कुन ऋत उर च" ( उ० ७३४ ) इति उ:, कुरुः । कृगश् हिंसायाम् [ ८।१५ ], कृणीते, कृणाति ॥
___ २१ गृत् निगरणे' । निगरणं भोजनम् । “ नवा स्वरे” २३।१०२ इति वा लत्वे गिरति, गिलति । प्रतिज्ञायां "समः " ३।३।६६ इति आत्मनेपदे संगिरते । “ अवात् " ३।३।६७ अवगिरते । कर्मकर्तरि " एकधातौ०" ३।४।८६ इति जिक्याऽऽत्मनेपदेषु प्राप्तेषु किरादित्वाद् “भूषार्थ. " ३।४।९३ इति क्ययोः प्रतिषेधे निगिरते ग्रासः स्वयमेव । “ इट् सिजा." ४४.३६ इति वेटि " वृतो नवा०" ४।४।३५ इति वेटो दी न्यगीष्ट प्राप्तः स्वयमेव । न्यगरिष्ट, न्यगरीष्ट स्वयमेव । णौ फलवत् कर्तरि “ईगितः” ३३९५ इति आत्मनेपदापवादे "चल्याहारार्थ०" ३।३।१०८ इति परस्मैपदे निगारयति ग्रासं चै मैत्रः । " गृलुप०" ३।४।१२ इति गार्थाद् यङि “यो यडि" २।३।१०१ इति लत्वे निजेगिल्यते । यङ्लुपि निजागलीति । "ऋस्मिपूङ” ४।४।४८ इति सनि इटि जिगरिषति, जिगरीषति । अस्य इटो दीर्घ नेच्छन्त्येके । गरिष्यति, गरीष्यति । " ऋवर्णश्रयू०" ४।४।५७ इति किति नेट्, “ऋल्वादे० " ४।२।६२ इति तो नत्वे
१. तृकृपीति इति मु० ॥