________________
२० ] धातुपारायणे तुदादयः (4)
[२५३ पिभ्यामिचः" ( उ० ११७) मरिचम् । “ म्रियतेरीचण्" (उ० ११८) मारीचः । " लूम्रो वा” ( उ० २०२) इति वा किति ते मृतः, मतः; स्वार्थे ये मर्त्यः । “ मृशीपसि.” (उ० ३६०) इति तादौ ये मत्यः । " जठरक्रकर०" ( उ० ४.३) इति अरे निपातनाद् मर्मरः शुष्कपत्त्रध्वनिः । "मृश्विकण्यणि०" उ० ६२६) इति ईचौ मरीचिः । “भृमृत" (उ० ७१६) इति उः, मरुः । “ मुस्त्युक्०" ( उ० ८०५) मृत्युः । “पलिमृभ्यामाण्डुकण्डुकौ" ( उ० ७६७ ) मृकण्डुः ऋषिः । मनि मर्म । मरुत् इति तु "म्र उत्" (उ० ८८९) इति मृणाते: उति ॥
अथ ऋदन्तौ सेटौ च ॥ “२० कृत विक्षेपे' । किरति । " अपस्किरः " ३।३।३० इत्यात्मनेपदे " अपाच्चतुष्पात्" ४।४।९५ इति स्सटि अपस्किरते वृषभो हृष्टः, अपस्किरते कुक्कुटो भक्ष्यार्थी, अपस्किरते श्वा आश्रयार्थी । कर्मकर्तरि “ एकधातौ० " ३।४।८६ इति जिक्यात्मनेपदेषु प्राप्तेषु “भूषार्थ " ३।४।९३ इति क्यज्योः प्रतिषेधे अवकिरते पांसुः स्वयमेव । " इसिजा०" ४।४।३६ इति वेटि " वृतो नवा० " ४।४।३५ इति वेटो दीर्घे, अनिसिचः “ ऋवर्णात् " ४।३।३६ इति किल्वे अबाकीट पांसुः स्वयमेव; पक्षे अवाकरिष्ट, अवाकरीष्ट; करिता, करीता । किति " ऋवर्ण,यू०" ४।४।५७ इति नेट् , कीर्णः, कीर्णवान् , कीर्वा । "ऋस्मिपू" ४।४।४८ इति सनि इटि चिकरिषति, चिकरीपति । अस्य इटो न दीर्घ इत्येके । उपपूर्वस्य " उपाकिरो." ५।४।७२ इति णमि “किरो लवने" ४।४।९३ इति स्सटि च उपस्कारं मद्रका लुनन्ति । “प्रतेश्च वधेः" ४४९४ इति स्सटि प्रतिस्कीर्णम् , उपस्कीर्णम् ह ते वृषल भूयात् । “स्कृच्छ्रतो." ४३८ इति गुणे “ प्रतिचस्करे नखैः " [ शिशुपालवध ११४७] । “नाम्युपान्त्य०" ५१५४ इति के किरः सूकरः । “चौ विकिरो० " ४४९६ इति वा स्सटि विष्किरः, " असोङ० " २।३।४८ इत्यत्र पत्वम् , विकिरश्च पक्षी । “युवर्ण" ५।३।२८ इति अलि " वर्चस्का०" ३।४८ इति निपातनाद् अवस्करः वर्चस्कम् । अवकरः अन्यः । उन्निपूर्वस्य " किरो धान्ये " ५।३।७३ इति घनि उत्कारः, निकारः धान्यस्य । अलि उत्करः निकरोऽन्यस्य । उणादौ " ऋतष्टित् " ( उ० ९) इति
१. " ऋतष्टित् " [उ. ९] इति सूत्रे मृश् हिंसायाम् इत्यस्माद् धातोः मर्मरशब्दः साधितः ।।