SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २५० ] आचार्यश्रीहेमचन्द्रविरचि [ धा०८ अथ दान्तः ॥ '८ विद्द्ती लाभे'। " मुचादि०” ४।४।९९ इति ने विन्दते, विन्दति । विविदे, विवेद । " वेत्तेः कित् " ३।४।५१ इति परोक्षाया वा आम् विन्दतेरपि इत्येके, तन्मते विदाञ्चकार, विवेद । अद्यतन्यां लदित्त्वादङि अविदत् ; आत्मनेपदे सिचो लुकि अवित्त । अनुस्वारेच्चान्नेट् , वेत्ता, वित्तः, वित्तवान् । " वित्तम्" ४।२।८२ इति निपातनानत्वाभावे वित्तं धनं प्रतीतं च । क्वसौ "गमहन०" ४।४।८३ इति वेटि विविदिवान् , विविद्वान् । “लिम्पविन्दः" ५।११६० इति शे विन्दः । अणपवादे " निगवादे." ५।१।६१ इति शे गोविन्दः, अरविन्दः । " याक्तो विन्द०" ५।४।५५ इति णमि यावद्वेदं भुङ्क्ते ॥ ........ अथ पान्तौ ॥ __ 'लुप्लुती छेदने' । मुचादित्वान्ने लुम्पते, लुम्पति । लुलुपे, लुलोप । लदिच्चादङि अलुपत् । आत्मनेपदे तु " धुड्० " ४।३।७० इति सिलुकि अलुप्त । " गृलुप० " ३।४।१२ इति. गार्थाद् यडि लोलुप्यते । अनुस्वारेचान्नेट् , लोप्ता, लुप्तः, लुप्तिः । धजि लोपः । उणादौ " हुयामा०" (उ० ४५१ ) इति । लोपत्रम् अपहृतं द्रव्यम् ॥ '१० लिपीत् उपदेहे ' । उपदेहः वृद्धिः । मुचादित्वान्ने लिम्पते, लिम्पति । लिलिपे, लिलेप । “ ह्वालिप्० " ३४६२ इति अङि अलिपत् । “ वाऽऽत्मने" ३।४।६३ अलिपत, अलिप्त । अनुस्वारेचान्नेट , लेप्ता, लिप्तः । “लिम्पविन्दः" ५।१।६० इति शे लिम्पः । “निगवादे०" ५।११६१ इति शे निलिम्पा नाम देवा: । णके स्त्रियामापि विले पिका, अनुलेपिका ।। अथ परस्मैपदिषु तान्तः ॥ — ११ कृतेत् छेदने ' । " शेषात् " ३।३।१०० इति परस्मैपदे मुचादित्वान्ने कृन्तति । चकर्त, कर्तिता । सादौ अशिति " कृतचूत०" ४।४।५० इति वेटि कस्य॑ति, कर्तिस्यति, चिकृत्सति, चिकर्तिपति । सिचि तु नित्यमिटि अकर्तीत् । वेट्त्वात् क्तयोर्नेट् , कृत्तः, कृत्तवान् । ऐदित्वाद् यङ्लुबन्ताद् अनेकस्वरादपि क्तयोर्नेट् , चरीकृत्तः, चरीकृत्तवान् । विपि कृत् । नन्द्याधने कर्तनः । उणादौ " कृतिपुति० " ( उ० ७६ ) इति किति तिके कृत्तिका । " कृत्यशोभ्यां स्नक" ( उ० २९६) कृत्स्नम् । “ कृतेः कृच्छौ च" ( उ० ३९५) इति रे क्रूरः,
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy