________________
२४८ ]
आचार्य श्रीहेमचन्द्रविरचिते [ धा० २
इति वा किति अने भृजनं पाकः, भ्रजनः पावकः । " जिभृमृ० " (उ० ४४७) इति त्रटि वृद्धौ च भ्राष्ट्रम् । “ पशिभ्रस्जेः स्लुक् च" ( उ० ७३१) इति किदुः, भृगुः । “कृषिचमि०" ( उ० ८२९) इति ऊः, भजू: यवविकारः ॥
अथ पान्तोऽनिट् च ॥ ___ '३ क्षिपीत् प्रेरणे' । क्षिपते, क्षिपति । फलवकर्तरि आत्मनेपदापवादे " प्रत्यभ्यतेः " ३।३।१०२ इति परस्मैपदे प्रतिक्षिपति, अभिक्षिपति, अतिक्षिपति, चिक्षिपे, चिक्षेप । अनुस्वारेवान्नेट , क्षेप्ता, क्षिप्त: । " नाम्युपान्त्य" ५।११५४ इति के क्षिपः । “सिगृधि०" ५।२।३२ इति क्नो क्षेपशीलः 'क्षिप्नुः । " क्षिपस्टः" ५।२।६६ इति घिनणि परिक्षेपी अम्भसाम् । “ वादेश्च० " ५।२।६७ इति णके परिक्षेपकः । उणादौ " ध्रुधून्दि०" ( उ० २९) इति किति अके क्षिपकः वायुः । क्षिपकादित्वादित्वाभावे क्षिपका आयुधम् । "ऋज्यजि." ( उ० ३८८ ) इति किति रे क्षिप्रम् । " क्षिपेः कित्" ( उ० ६४२) इति अणौ क्षिपणिः हेतिः । " क्षिपेरणुक " ( उ० ७७० ) क्षिपणुः । क्षिपंच प्रेरणे [३॥१५ ], क्षिप्यति ॥
- अथ शान्तोऽनिट् च ॥ - ४ दिशीत अतिसर्जने' । अतिसर्जनं त्यागः । दिशते, दिशति, दिदिशे, दिदेश । अनुस्वारेच्चान्नेट , देष्टा, आदिष्टः; दिष्टं दैवम् । “ऋत्संपदा० " ५।३।११४ इति क्विपि " ऋत्विदिश्" २।१।६९ इति पापवादे गे दिश्यते सा इति दिक् । भिदायङि दिशा । " श्वादिभ्यः" ५।३।९२ इति क्तौ दिष्टिः वितस्तिः । " नाम्ना ग्रहा." ५।४।८३. इति णमि नामाऽऽदेशं दत्ते; "तृतीयोक्त वा" ३।१।५० इति वा समासः, पक्षे नामानि आदेशम् । उणादौ " वृमिथिदिशिभ्यस्थ-य-ट्याश्चान्ताः" ( उ० ६०१ ) इति . आः, दिष्ट्या आनन्दोक्ती निपातः ॥
अथ षान्तोऽनिट् च ॥ ५. '५ कृषीत् विलेखने ' । कृषते, कृषति, चकृषे, चकर्ष । " स्पृशमृश० " ३।४।५४ इति वा सिचि "स्पृशादि०" ४।४।११२ इति वा अकारान्ते अक्राक्षीत् ; पक्षे " हशिटो. " ३।४।५५ इति सकि अकृक्षत् । अनुस्वारश्चानेट , ऋष्टा,
१. क्षिप्णुः इति मु० । २. लोके गोफणि इति लिं दुर्ग. ४५ ॥