________________
२९ ] धातुपारायणे स्वादयः (४)
[ २४५
अथ वान्तो सेटौ च ॥ '२५ कुवुटु हिंसाकरणयोः'। "श्रौतिकवुधिवु०" ४।२।१०८ इति क्रादेशे कृणोति, कृणुतः, कृण्वन्ति । उदित्वान्ने चकृण्व, कृण्विता ।।
२६ धिवुट् गतौ' । श्रीणनेऽप्यन्ये । "श्रौतिकृयुधिवु० " ४।२।१०८ इति ध्यादेशे घिनोति, धिनुतः, धिन्वन्ति । उदित्वान्ने दिधिन्व, धिन्विता, धिन्वितुम् ।
ये तु अन्यैरिह अष्टौ पठिता अड व्याप्ती, दघ घातने, ऋक्षि-चरि-जरिदास-द्रु हिंसायामिति, उदाहृताश्च, अणोति, दध्नोति, ऋक्ष्णोति । केचित्त ऋक्षिं छिन्दन्ति ऋणोति, क्षिणोति, चिरिणोति, जिरिणोत, इति, ते लौकिकाः इति अस्माभिरुपेक्षिताः ॥
अथ षान्तः सेट् च ॥ • २७ निषाट् प्रागल्भ्य' । धृष्णोति, दधर्ष, धर्षिता । "धृषशसः प्रगल्भे" ४।४।६६ इति क्तयोनेंट , धृष्टः, धृष्टवान् ; जिवादत्र “ ज्ञानेच्छा." ५।२।९२ इति सति क्तः, प्रागल्भ्यार्थादन्यत्र इटि " न डी." ४।३।२७ इति किवाभावाद् गुणे धर्षित:, धर्षितवान् । आदित्वाद् " नवा भावारम्भे" ४।४।७२ इति वा नेट् , धृष्टमनेन, धर्षितमनेन, प्रधृष्टः, प्रधर्षितः । विपि “ऋत्विज-दिश०" २।११६१ इति गत्वे, निर्देशादेव द्वित्वे च दधृक् । “सिगृधि० " ५।२।३२ इति क्नौ धर्षशीलः धृष्णुः । " तृषिधृषि०" ५।२६८० इति नजिङि धृष्णक् । " शामू-युधि०" ५।३।१४१ इति खलपवादेऽने दुर्धर्षणः । " शकधृष०" ५।४।९० इति तुमि धृष्णोति गन्तुम् । धृषण प्रसहने [ ९।४१२ ], " युजादे." ३।४।१८ इति वा णिचि धर्षयति, धर्षति ।
अथाऽऽत्मनेपदिनौ सेटौ च ॥ — २८ टिघिट् आस्कन्दने' । " ष: मो० " २।३।९८ इति से निमित्ताभावात् टस्य ते " इङितः० " ३।३।२२ इत्यात्मनेपदे स्तिघ्नुते । षोपदेशत्वाद् " नाम्यन्तस्था० " २।३।१५ इति पत्वे तिष्टिधे । स्तेधिता ॥
' २९ अशौटि व्याप्तौ' । संघातेऽप्यन्ये । अश्नुते । “ अनातो. " ४।१।६९ इति पूर्वस्य आत्वे नेऽन्ते च आनशे । औदिचाद् वेट , अष्टा, अशिता । मनि “ऋस्मिपू० " ४।४:८८ इति इटि " स्वरादे०" ४।१।४ इति द्वितीयां