________________
२१ ] धातुपारायणे स्वादयः (४)
[ २४३
मित्येके, सिसाघयिषति । तिक-तिग-'चषध हिंसायामित्यन्ये पेठुः, तिघ्नोति, 'चषघ्नोति ॥
अथ धान्तास्त्रयः ॥ — १९ राधं २० साधंट संसिद्धौ' । संसिद्धिः फलसंपत्तिः । “ यद्वीक्ष्ये " २।२।५८ इति चतुर्थी मैत्राय गध्नोति । रराध । आरराधुः गुरुम् । वधे तु "अवित्परोक्षा" ४।१।२३ इति स्वरस्य एत्वे द्वित्वाभावे च प्रतिरेधुः शत्रुम् । अनुस्वारेचानट, राद्धा, राद्धः । सनि " राधेर्वधे" ४।१।२२ इति स्वरस्य इ: द्वित्वाभावश्च, प्रतिरित्सात । वधादन्यत्र आरिरात्सति गुरुम् । “ ग्रहादिभ्यो० " ५।१।५३ इति णिनि अपराधी, उपराधी । घजि राधः । “घञ्युपसर्गस्य." ३।२।८६ इति वा दीर्घ अनूगधाः, अनुराधाः । क्तौ राद्धिः । राधंच वृद्धौ [ ३६१३ ], गध्यति ॥
'२० साधंटू ' । सानोति ससाध । अपोपदेशत्वात् षत्वाभावे सिसात्सति, सिसाधयिषति । षोपदेशोऽयमित्येके तन्मते " नाम्यन्तस्था० " २।३.१५ इति "णिस्तोरेवा० " इति च षत्वे सिषात्सति, सिषाधयिषति । णौ नन्द्याद्यने साधन: । उणादौ " कुवापाजि० " ( उ० १) इति उणि साधुः ॥
___ २१ ऋभूटू वृद्धौ' । ऋध्नोति । " ऋत्या० " १।२।९ इत्युपसर्गाऽवर्णस्य आरि प्राोंति, परानोंति । “ अनातो." ४।१६९ इति पूर्वस्य आत्वे नेऽन्ते च आनर्ध, आन्धतः । अर्धिता । उदित्वात् क्वि वेट् , ऋद्भवा, अधित्वा । सनि “इवृध०" ४।४।४७ इति वेट , अदिधिषति । “ऋध ईत् " ४।१।१७ द्वित्वाभावश्च ईर्सति । वेटत्वात् क्तयोनेंट , ऋद्धः, ऋद्धवान् । ऋच् वृद्धौ [ ३।४३ ], ऋष्यति ॥ ..
१. यथा तु काशकृत्स्नकातन्त्रवान्द्रहै मशाकटायनघातुपाठेषु पाठस्तथा तिक. तिगधात्वोर्हि'सार्थः, न तु स्कन्दनार्थ: । प्रतीयते कस्यचित् प्राचीनश्लोकबद्धधातुपाठस्थानुकरणेन मध्ये चकारः पठित: स्यात्-ष्टिघ आस्कन्दने तिक, तिग च षघ हिंसायाम। इदं रहस्यमविदित्वैव कैश्चिद् वृतिकारैश्चकाराद् आस्कन्दनार्थो गृहीत: । अपरैश्च चकारं षघ-धातुना संयोज्य चषघ-धातुः स्वीकृत: । (क्षी. त. टि. २३०) । [३] षघ इति मु० ॥
२. [व]षघ्नोति इति मु० ॥