________________
२४२ ]
आचार्यश्रीहेमचन्द्र विरचिते [ धा० १२" वा ज्वलादि० " ५।१।६२ इति वा णे दावः, पक्षे अचि दवः । ट्विवादथौ दवथुः । दुं गतौ [ १११२ ], दवति ॥
अथ ऋदन्तावनिटौ च ॥ १३ पृट् प्रीतो' । पृणोति, पपार । थवि "ऋतः" ४।४७९ इति नेट् , पपर्थ । अनुस्वारेच्वान्नेट् , पर्ता, पृतः । सनि पुपूर्षति। पंक पालनपूरणयोः [२१७६], पिपति ॥
१४ स्मृट पालने च' । चकारात् प्रीतौ । जीवनेऽप्यन्ये । स्मृणोति, सस्मार । अनुस्वारेच्चान्नेट, स्मर्ता, स्मर्तुम् । थवि " ऋतः" ४४७९ इति नेट् , सस्मर्थ । पोपान्त्योऽयमित्येके; स्पृणोति, पस्पार, स्पर्ता ॥
अथ कान्तौ ॥ १५ शकलंट शक्तौ' । शक्नोति, शशाक, शेकुः । लुदित्वादङि अशकत् । ये तु शक्यते: पुष्यादित्वं प्रतिपमाः तेषां पुष्पादित्वादेव अडि सिद्ध लदिवमात्मनेपदेऽपि अङर्थम्, तेन " क्रियाव्यतिहारे०" ३।३।२३ इत्यात्मनेपदे अङि व्यत्यशकत् । अनुस्वारेच्चान्नेट, शक्ष्यति, शक्तः चैत्रः। " शकः कर्मणि " ४।४।७३ इति वा नेट, शक्तः शकितो वा धर्मः कर्तुं चैत्रण । सनि “ रमलभ० " ४।१।२१ इति स्वरस्य इ: द्वित्वाभावश्च शिक्षति । "शको जिज्ञासायाम् " ३।३।७३ इति आत्मनेपदे विद्याः शिक्षते । “ शकितकि०" ५।१।२९ इति ये शक्यः । “ शकधृष० " ५।४।९० इति तुमि शक्नोति भोक्तुम् । शकींच मर्षणे [ ३१३७ ], शक्यते शक्यति ॥
'१६ तिक, १७ तिग, १८ पघट् हिंसायाम् ' । आद्यौ आस्कन्दनेऽपि इत्येके । तिक्नोति, तितेक, तेकिता । " नाम्युपान्त्य०" ५।१।५४ इति के तिकः ।।
___ अथ गान्तः सेट् च ॥ ___ १७ तिग' । तिग्नोति, तितेग, तेगिता । " नाम्युपान्त्य०" ५।११५४ इति के तिगः ॥
___ अथ घान्तः सेट् च ॥ · १८ षघट्' । " : सो." २१३९८ इति से सनोति, ससाध । पोपदेशत्वाद् “णिस्तोरेवा० " २॥३॥३७ इति षत्वे सिषाधयिषति । अपोपदेशोऽय
१. स्मृ प्रीतिबलनयोः, बलनं जीवनम् (क्षी. त. १२८ ) ॥