________________
२४० ]
आचार्यश्रीहेमचन्द्रविरचिते [धा० ७
अथ ऋदन्तास्त्रयोऽनिटश्च ॥ '७ स्लॅग्ट आच्छादने' । स्तृणुते, स्तृणोति । “संयोगाद्” ४।३।९ इति गुणे तस्तरे, तस्तरुः । क्थे " क्ययङा० " ४।३।१० इति गुणे आस्तार्यते; यङि तास्तयते । अनुस्वारेचान्नेट , स्ता, विस्तृतः । विस्तीर्ण इति तु स्तृणातेः ।।
' ८ कुंगट हिंसायाम् ' । कृणुते, कृणोति; चक्रे, चकार । अनुस्वारेच्चान्नेट, कर्ता, कृतः । डुकुंग करणे [ ११८८८ ], करोति, करति ॥
___ ९ गट वरणे' । घृणुते, वृणोति, वने, ववार । थवि "ऋवृ०" ४।४।८० इति इटि ववस्थि । “ स्क्रसृवृ०" ४।४।८१ इत्यत्र अस्य वर्जनाद् इडभावे ववृष, वम । " वृतो नवा०" ४।४।३५ इति इटो वा दीर्घे प्रावरिता, प्रावरीता; आशिषि सिचपरस्मैपदे च दीर्घाभावे प्रावरिषीस्ट, प्रावरिष्टाम् । " इटू सिजाशिषो०" ४।४।३६ इति वेटि प्रावरिष्ट, प्रावरीष्ट, प्रावृतः प्रावरिपीष्ट, प्रायषीष्ट । सनि “ इध० " ४।४।४७ इति वेट् , विवरिषति विवरीषति, बुवूपति । " ऋवर्णश्य०" ४४५७ इति किति नेट , वृत्वा, वृतः, वृतवान् । कर्मणोऽणि "घन्युपसर्गस्य ० " ३२२८६ इति बाहुलकाद् दी कुचं वृणोति कूचवारः । "वर्योपसर्या० " ५।१।३२ इति निपातनाद् ये वर्यम् उपेयम् चेत् ; स्त्री वर्या, अन्यस्तु "दृ-वृग" ५।१।४० इति + पि वृत्यः । बाहुलकाद् ध्यणि ण्यन्ताद्वा ये वार्यम् । "भृवृजि०" ५।११११२ इति खे पतिवरा कन्या । “युवर्ण" ५।३।२८ इति अलि वरः । " नेवुः". ५।३।७४ इति पनि नीवारः ब्रीहिः । " वृगो वस्त्रे" ५।३।५२ इति वालि प्रवरः, पक्षे घञि "घञ्युपसर्गस्य ०" ३।२१८६ इति दीघे प्रावारः । उणादौ “ विचिपुषि० " ( उ० २२ ) इति किति के वृकः । “ जुकृत ० " ( उ० १७३) इति अण्डे वरण्ड: इक्ष्वादिसंचयः । " तकश ०" (उ० १८७) इति अणे वरणः वृक्षः । “काश ० " (उ० ४४१) इति वरटि वर्वरः कुश्चितः केशः । " वृगनक्षि० " ( उ० ४५६ ) इति अत्रे वरत्रा। प्यन्तात् “ स्वरेभ्य० " ( उ० ६०६) इति औ वारि: गजग्रहणगर्ता, वारि जलम् । "अजिस्था०" ( उ० ७६८) इति गौ वर्णः हृदः । “वाारी" (उ० ९४४) इति निपातनात् क्विपि वाः जलम् । वरूथ इति तु " जवृभ्यामूथः " (उ० २३६) इति उथे घृणातेः । वर्ण इत्यपि " इणुर्विशा०" (उ० १८२) इति णे वृणातेः ।।
E