SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ५] धातुपारायणे स्वादयः (४) [२३९ णौ " चिस्फुरो०" ४।२।१२ इति वा आत्वे " अतिरी" ४।२।२१ इति पौ उच्चापयति, उच्चाययति । “संचाय्य०" ५।१।२२ इति ध्यणि निपातनात् संचाय्य: क्रतुः । “य एचा." ५।१।२८ इति ये संचेयम् अन्यत् । “धाग्यापाय्य." ५।१।२४ इति निपातनाद निकाय्यः निवासः, निचेयः अन्यः । “परिचाय्योपचाय्या" ५।१।२५ इति निपातनात् परिचाय्यः अग्निः; एवमुपचाय्यः, चित्यः । परिचयः, उपचेयः, चेयश्चान्यः । “अग्निचित्या०" ५।१।३७ इति भावे क्यपि निपातनाद् अग्नेः चयनम् अग्निचित्या । " अग्नेश्वेः" ५।१११६४ इति क्विपि अग्निचित् । " कमण्यग्न्यर्थे " ५।१।१६५ श्येन इव चीयते स्म श्येनचित् , स्थचक्रचित् । " हस्तप्राप्ये० " ५।३।७८ इति अलपवादे पनि पुष्यप्रचायः । “चितिदेहा०" ५।३।७९ इति धनि 'आकायमग्नि चिन्वीत', कायः, निकायः, गोमयनिकायः । " संघेऽनूचे " ५।३।८० साधुनिकायः; सोधे तु "युवर्ण०" ५।३।२८ इति अलि सूकरनिचयः । स्त्रियां क्तौ चितिः । उणादौ " चिजि०" ( उ० ३९२ ) इति रे दीघे च चीरम् । " चिमिदि०" ( उ० ४५४ ) इति किति त्रे चित्रम् , चित्रा । केचित्तु चिगणु चये इति चुरादौ पठन्ति तस्य च घटादित्वं “चिस्फुरोनवा" ४।२।१२ इति आत्वाभावं चेच्छन्ति, तन्मते चययति । आत्वमपि अन्ये चापयति । णिजभावे तु चयते, चयति ॥ अथोदन्तः सेट् च ॥ '६ धृगट कम्पने ' । धूनुते, धूनोति; दुधुवे, दुधाव । थवि "स्क्रसृवृ०" ४।४।८१ इति इटि दुधविथ । “धूगौदितः" ४।४।३८ इति वेट् , धोता, धविता । सिचि " धृगसुस्तोः०" ४।४।८५ इति इटि अधावीत् ; आत्मनेपदे तु वेटि अधोष्ट, अधविष्ट । णौ " धृगनीगो० " ४।२।१८ इति ने विधनयति । " लूधृसू० " ५।२।८७ इति इने धूयतेऽनेन इति पवित्रमित्येके । पेटत्वात् क्तयोर्नेट, अवधृतः, धृतः, धृतवान् । “युवर्ण०" ५।३।३८ इति अलि धवः । उणादौ " ध्रुधृन्दि०" ( उ० २९) इति किति अके क्षिपकादित्वाद् इत्वाभावे धूवका आवपनविशेषः । “ विलिमिलि." ( उ० ३४०) इति किति मे धूमः । " कृधूतनि०" ( उ० ४४०) इति किति सरे धूसरः । उदन्तोऽनिट चायमित्यन्ये, धुनुते, धुनोति; धोता, विधुत: । धूत् विधूनने [५।११६ ], धुवति । धृगश् कम्पने [ ८।१३ ], धुनीते, धुनाति । धूगण कम्पने [ ९।३७९ ], धूनयति, णिजभावे धवते, धवति ।।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy