________________
अथ स्वादयः अथ स्वादयो वर्णक्रमेण निर्दिश्यन्ते । तत्राऽपि प्रसियनुरोधेनाऽऽदौ
१ गट अभिषवे'। 'अभिषवः क्लेदनं 'संधानाख्यं, पीडनमन्थने वा । “पः सो०" २।३।९८ इति से, गिचात् फलवकर्तरि “ ईगितः०" ३३९५ इत्यात्मनेपदे, " स्वादेः श्नुः" ३४७५ इति श्नौ सुनुते । फलवतोन्यत्र "शेषात् " ३।३।१०० इति परस्मैपदे “ उश्नोः " ४।३।२ इति गुणे सुनोति । " उपसर्गात् सुग्०" २।३।३९ इति पत्वे अभिषुणोति; अव्यवायेऽपि अभ्यषुणोत् , 'अद्वित्वे' इत्युक्तेः पूर्वस्य षत्वाभावे उत्तरस्य तु षोपदेशत्वात् " नाम्यन्तस्था० " २।३।१५ इति पत्वे अभिसुषुवे, अभिसुषाव । “सुगः स्यसनि" २।३।६२ इति पत्वप्रतिषेधे अभिसोष्यते; सनि विपि अभिसुमः । “णिस्तोरेवा०" २०३१३७ इति नियमात् षत्वाभावे अभिसुसूपति । “वम्यविति वा" ४।२।८७ इति वा उलुकि सुन्वः, सुनुवः सुन्मः, सुनुमः । अनुस्वारेचान्नेट् , सोता, सुतः, सुतवान् । "धूगसुस्तो०" ४।४।८५ इति सिचि इटि असावीत् ; आत्मनेपदे तु इडभावे असोष्ट । “आसुयु०" ५।१।२० इति यापवादे ध्यणि आसाव्यम् । “संचाय्यकुण्डपाय्य." ५।१२२ इति ध्यणि निपातनाद् राज्ञा सोतव्यो राजा वा सूयते अस्मिन्निति राजसूयः ऋतु: । " सोमात् सुगः" ५।१।१६३ इति भूते क्विपि सोमसुत् । “सुयजोवनिप्" ५।१।१७२ सुतवान् , सुत्वा । “णस्वराघोषा." २।४।४ इति उयाम् नो रत्वे सुत्वरी । “सुग द्विषा०" ५।२।२६ इति अशि सुन्वन्तः यजमानाः। “समिणा०" ५।३।९३ इति क्यवपवाद तो आसुतिः । " समज०" ५।३९९ इति क्यपि सुत्या । उणादौ " विचिपुषि०" ( उ० २२) इति किति के सुकः निरामयः । “ सुसितनितुसेर्दीर्घश्च वा" ( उ० २०३) इति किति ते सुतः, सूतः । " वृतुकुसुभ्यो नोऽन्तश्च" ( उ० २४०) इति दे सुन्दः दैत्यः । “ सोरू च" ( उ० २६३) इति ने सूना घातस्थानम् । “स्वसिरसि०" ( उ० २६९) इति अने सवनः । “ युसुकु०" (उ० २९७ ) इति पे ऊत्वे च
१. अभिषयः स्नान मिति चान्द्राः, द्र० है. प्र. ॥ २. सन्धान इति अथाणा, द्र० लिं. दुर्गपद० १२ ॥