________________
२३६ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० १४०अथ पान्तोऽनिट च ॥ १४० शपींच आक्रोशे' । शप्यते, शप्यति । शेपे, शशाप । अनुस्वारेच्चान्नेट , शप्ता, शप्त्वा, शप्तः । घनि शापः । उणादौ " शाशपि० " (उ० २३७) इति दे शब्दः । शीं आक्रोशे [ ११९१६ ], शपते, शपति ॥
___ अथ षान्तः सेट् च ॥ १४१ मृषीच तितिक्षायाम् ' । तितिक्षा क्षमा । मृष्यते, मृष्यति । फलवकतयपि " परेमषश्च" ३३१०४ इति परस्मैपदे परिमृष्यति । ममृपे, ममर्प, मर्षिता । "ऋत्तष०" ४।३।२४ इति कत्वो वा कित्त्वे मृषित्वा, मर्षिन्वा । " मृषः क्षान्तौ" ४।३।२८ इति क्तयोः कित्त्वाभावे मर्षितः, मर्षितवान् , क्षान्तेः अन्यत्र धातूनामनेकार्थत्वाद् भूषणादिषु कित्त्वे मृषितः, मृषितवान् । नन्द्याद्यने मर्षणः । " शासूयुधि०" ५।३।१४१ इति खलपवादे अने दुषिणः । मृषू सहने च [ ११५२८ ], मर्षति । मृषण् क्षान्तौ [ ९।३५४ ], अदन्तः, मृषयति । मृषिण तितिक्षायाम् [ ९।४०९ ], "युजादे० " ३।४।१८ इति वा णिचि मर्पयति, मर्पते ।।
__अथ हान्तोऽनिट च ॥ १४२ णहीच बन्धने' । “पाठे० " २।३।९७ इति ने नह्यते, नाति । णोपदेशत्वाद् “ अदुरुपसर्गा० " २।३।७७ इति णत्वे प्रणह्यते । “वावाप्यो." ३।२।१५६ इति पिर्वा अपिनाते, पिनद्यते । नेहे, ननाह । अनुस्वारेचाम्नेट् , " नहाहो." २।१।८५ इति हस्य धे नद्धा, संनद्धः। घजि संनाहः । “नीदाव्०" ५।२।८८ इति बटि नद्धी । “क्रुत्संपदा०" ५।३।११४ इति क्विपि “ गतिकारकस्य०" ३।२।८५ इति दीर्घ उपनद्यते इति उपानत् । उणादौ "ऋपनहि." (उ० ५५७ ) इति उषे नहुषः-राजा । “ नहेर्भ च" (उ० ६२१ ) इति णिद् इ. नाभिः । नभ इति तु नभ्यतेः [" अस्" ( उ० ९५२) इति ] असि । नख इति तु नास्य खमस्ति इति बहुव्रीही नखादित्वाद् अदभावे ॥
इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे चित् दिवादिगणः श्यविकरणः
संपूर्णः ॥