SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ११२ ] धातुपारायणे दिवादयः (३) [ २२७ = अथ जान्तावनिटौ च ॥ '१११ युणिच् समाधौ' । समाधिः चित्तवृत्तिनिरोधः । युज्यते । युयुजे । अनुस्वारेच्चान्नेट् , योक्ता, योक्तुम् । “कुप्यभिद्य०" ५।११३९ इति क्यपि निपातनाद् युज्यते अनेनेति युग्यं वाहनम् । ध्यणि योग्यमन्यद् । कर्मणोऽणि 'न्यवादि' इति गत्वे गोयोगः । ध्यणि “नि-प्राद् युजः०" ४।१।११६ इति गत्वाभावे नियोक्तुं शक्यं नियोज्यम् , प्रयोज्यम् । “ नाम्युपान्त्य० " ५।११५४ इति के, “न्यङ्कद्ग० " ४।१।११२ इति गत्वे युगम् , संयुगम् । विपि " युज्रो० " १।४।७१ इत्यत्र युनक्तग्रहणात् नान्ताभावे युक्, युजौ, युजः; अश्वयुक् । अस्याऽपि नोऽन्त इत्यन्ये, युङ, युनौ, युधः । “गत्यर्थाऽकर्मक०" ५।१।११ इति कर्तरि क्ते, “कुशलायुक्ते" २।२।९७ इति वा सप्तम्याम् आयुक्तो देवार्चायां देवार्चाया वा । “ युजभुज० " ५।२।५० इति घिनणि योगशीलः योगी । “ नीदा० " ५।२।८८ इति करणे त्रटि योक्त्रम् । घनि योग: । आधारेऽनटि योजनम् । णौ "णिवेच्या०" ५।३।१११ इति अने योजना । "क्रुत्संपदा०" ५।३।११४ इति विपि युजमापना मुनयः । उणादौ "युयुजि." • (उ० २७७) इति किति आने युजानः सारथिः । “ तिजियुजेग च" (उ० ३४५) इति किति मे युग्मम् । युनूंपी योगे [१४] युङ्क्ते, युनक्ति । युजण, संपर्चने [ ९।३७३ ], “युजादे०" ४।३।१८ इति वा णिचि योजयति, योजति ॥ ११२ सृजिच विसर्गे'। " इङित:" ३।३।२२ इत्यात्मनेपदे सृज्यते मालां चैत्रः । कर्मकर्तरि "एकधातौ०" ३।४।८६ इति क्ये सृज्यते माला स्वयमेव । ससृजे । अनुस्वारेवान्नेट् , “ सृजिदृशो०" ४।४।१११ इति अति स्रष्टा, सृष्टः, सृष्टवान् । "पाणिसमवाभ्याम्०" ५।१।१८ इति क्यवषवादे ध्यणि पाणिसग्यो, समवसर्या रज्जुः । " संवेः" ५।२।५७ इति घिनणि संसर्गशीलः संसर्गी, विसर्गी । घनि निसर्गः । “क्रुत्संपदा०" ५।३।११४ इति कर्मणि क्विपि "ऋत्विजदिश" २०११६९ इति निर्देशाद् ऋतो रत्वे स्रक् । " श्वादिभ्यः" ५।३।९२ इति क्तौ सृष्टिः । उणादौ "स्यन्दिसृजिम्यां सिन्धरजौ च" ( उ० ७१७) इति उः, रज्जुः । सृजत् विसर्गे [ ५।३५ ], सृजति ॥ १. " न्यङ्कूद्गमेघादयः" ४।१।११२ इति सूत्रेण ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy