________________
९८ ] धातुपारायणे दिवादयः (३)
[ २२३ " परेर्देबि०" ५।२।६५ इति घिनणि परिमोहशीलः, परिमोही । घमि मोहः । उणादौ " पूमुहोः पुन्मूरो च" ( उ० ८६) इति खे मूर्खः । “मुहेः कित् " ( उ० ७०० ) इति उरौ मुहुरिः गौः । “ मुहिमिथ्यादेः कित् " (उ० १०००) इति उसि मुहुः कालावृत्तिः ॥
___९६ द्रुहीच जिघांसायाम् ' । "क्रुद्रुहे." २।२।२७ इति संप्रदानत्वे मैत्राय द्रुह्यति । दुद्रोह । पुष्याध ङि अद्रुहत् । औदित्त्वाद् वेट , “ मुह द्रुह." २।१।८१ इति वा हस्य घत्वे द्रोग्धा, द्रोढा, द्रोहिता । विपि मित्रध्रुक, मित्रध्रुट । वेट्त्वात् क्तयोर्नेट् , द्रुग्धः, द्रुढः । " युजभुज०" ५।२।५० इति घिनणि द्रोहशीलः, द्रोही । घनि द्रोहः । उणादौ " ऋदुहेः कित्" (उ० १९५) इति इणे द्रुहिणः ब्रह्मा ॥
• ९७ ष्णुहोच उगिरणे'। “प: सो०" २।३।९८ इति सत्वे स्नुह्यति । पोपदेशत्वात् “ नाम्यन्तस्था० " २।३।१५ इति पत्वे सुष्णोह, सुष्णोहयिषति । पुष्याद्यङि अस्नुहत् । औदित्वाद् वेट , “ मुद्रुह० " २।११८४ इति हस्य वा घत्वे स्नोग्धा, स्नोढा, स्नोहिता । वेटूत्वात् क्तयोर्नेट् , स्नूग्धः, स्नूढः, स्नुग्धवान् , स्नूढवान् उणादौ " नाम्युपान्त्य कृगृ०" (उ० ६०९) इति किद् इ., स्नुहिः महावृक्षः ॥
९८ ष्णिहीच प्रीतो'। “षः सो०" २१३९८ इति सत्वे स्निह्यति । षोपदेशत्वात् " नाम्यन्तस्था०" २।३।१५ इति षत्वे सिष्णेह । पुष्याद्यङि अस्निहत् । औदित्वाद् वेट् , “ मुहद्रह ०" २११८४ इति हस्य वा घन्वे स्नेग्धा, स्नेढा, स्नेहिता । वेट्त्वात् क्तयोर्नेट् , स्निग्धः, स्नीढः, स्निग्धवान् , स्नीढवान् । क्विपि स्निक, स्निट् । “ ऋत्विज० " २।११६९ इति हस्य गत्वे, सूत्रनिर्देशादेव उदः दलुकि सस्य षत्वे च उष्णिक । “अजादेः०" २।४।१६ इति आपि उष्णिहा । घजि स्नेहः । णिहण स्नेहने [९।१४८ ], स्नेहयति ॥
केचित्तु शमू-दमू-तमू-श्रमू-भ्रमू-क्षमौ-मदै-अमू-यमू-जसूदसू-व-प्युष-प्युस-पुस-प्लु-विस-कुस-कुश-दुस-मुस-मसै-लुठ-उच-भृशू-भ्रंशू. वृश-कृश-जितष-हृष-रुष-डिप-ष्ट्रप-कुप-गुप-युप-रुप-लुप-लुभ-णम-तुभ-क्लिदो जिमिदा-शिक्ष्विदा-ऋधू-गृधूनां पुष्यादित्वं नेच्छन्ति, तन्मते पुष्याद्यङभावे सिचि अशमीत् , अदमीत् , अश्रमीत , अयसीत् , अलोटित् , अप्लोपीत् , अकोपीत् , अलोपीत् , अहर्षीत् इत्यादि ॥