________________
२२२]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९३
अथ दान्तः ॥ ९३ मदैच् हर्षे' । माद्यति । ममाद । पुष्यायङि अमदत् । मदिता । ऐदियात् क्तयोर्नेट् , “ रदाद." ४।२।६९ इत्यत्र मदेवर्जनाद् नत्वाभावे मत्तः, मत्तवान् । णौ हर्षग्लपनयोः घटादित्वात् हस्वे मदयति । अन्यत्र प्रमादयति, उन्मादयति । अनुपसर्गात् “ यममद०" ५।१।३० इति ये मद्यम् । सोपसर्गाद् ध्यणि प्रमाद्यम् । नन्द्याद्यने मदयति इति मदनः । " इरम्मदः " ५।१।१२७ इति खशि निपादनाद् इरया माधति इरम्मदः मेघज्योतिः । " उदः पचि०" ५।२।२९ इति इष्णौ उन्मादशीलः उन्मदिष्णुः । “शमष्टकाद्" ५।२।४९ इति घिनणि मदशीलः मादी, उन्मादी । " व्यधजप०" ५।३।४७ इति अलि मदः । सोपसर्गात्तु घनि प्रमादः । संमदप्रमादी हर्षे, संमदः कन्यानाम् , प्रमदः कोकिलानाम् । उणादौ " तुदिमदि०" ( उ० १२४ ) इति छे मच्छ: मत्स्यः । “ मदे: स्यः" (उ० ३८३) मत्स्यः । गौरादित्वाद् ड्याम् “मत्सस्य यः" २।४।८७ इति यलुकि मत्सी । “ मदिमन्दि०" ( उ० ४१२) इति इरे मदिरा । "मीज्यजि०" ( उ० ४३९) इति सरे मत्सरः । मदिण तृप्तियोगे [ ९।२४१ ], मादयते ॥ ___९४ क्लमूच् ग्लानौ' । " भ्रासम्लास०" ३।४।७३ इति वा श्ये, "ष्ठिवू-क्लम्बा० " ४।२।११० इति दीर्घे क्लाम्यति, पक्षे शवि क्लामति । चक्लाम । पुष्याघडि अक्लमत् । क्लमिता । ऊदित्त्वात् 'कित्व वेट , क्लान्त्वा, क्लमित्वा । वेट्त्वात् क्तयोर्नेट क्लान्तः, क्लान्तवान् । “ शमष्टकाद्" ५।२।४९ . इति घिनणि क्लमी । घनि क्लमः ॥ अवसितं शमादीनां सप्तकमष्टकं च ॥ .
अथ प्रकृतवर्णक्रमेण हान्ताश्चत्वारः सेटश्च ॥ '९५ मुहौच वैचित्ये' । वैचित्यम् अविवेकः । मुह्यति । मुमोह । पुष्याघडि अमुहत् । औदित्वाद् वेट , धुट्प्रत्यये पदान्ते च “ मुद्रुह०२।१८४ इति वा हस्य धत्वे मोग्धा, मोढा, पक्षे मोहिता । उन्मुक्, उन्मुट् । वेट्त्वात् क्तयोर्नेट् , मुग्धः, मूढः, मुग्धवान् , मूढवान् । णौ फलवकर्तरि "ईगितः " ३।३।९५ इत्यान्मनेपदे, “ अणिगि प्राणिकतक०" ३।३।१०७ इति - परस्मैपदेनापोदिते, “परिमुहायमा० " ३३९४ इति पुनर्विहिते परिमोहयते . शत्रुम् ।
१. मु० नास्ति ।