________________
९२ ] धातुपारायणे दिवादयः (३)
[ २२१ ते दन्तः । “दमेरुनसूनसौ " ( उ० ९८७) दमुनाः, दमूनाः च वह्निः । “यमिदमिभ्यां डोस्" ( उ० १००५) दोः बाहुः ॥
'८९ तमूच काङ्क्षायाम् ' । ताम्यति । तताम । पुष्याघडि अतमत् । तमिता । ऊदिचात् कित्व वेट् , तान्त्वा, तमित्वा । वेट्त्वात् क्तयोर्नेट् , तान्तः, नितान्तः, तान्तवान् । “शमष्टकात्०" ५।२।४९ घिनणि, "मोऽकमि० " ४।३।५५ इति वृद्धयभावे तमी । घनि तमः । गौरादित्वाद् इयां तमी रात्रिः । उणादौ " चिजिशु०" (उ० ३९२) इति किति रे दीर्घे च ताम्रम् । " तप्यणि " ( उ० ५६९) इति असे तमसा नदी । "क्रमि-तमि०" (उ० ६१३) इति औ उपान्त्येत्वे च तिमिः । “अस" (उ० ९५२) इत्यसि तमः ।।
. '९० श्रमूच खेदतमसोः' । श्राम्यति । शश्राम । पुष्यायडि अश्रमत् । अमिता । उदित्वात् कित्व वेट , श्रान्त्वा, श्रमित्वा । वेट्त्वात् क्तयोर्नेट् , श्रान्तः, श्रान्तवान् । “ शकितकि०" ५।१।२९ इति ये श्रम्यम् । नन्द्याधने श्रमणः । स्त्रियामापि श्रमणा । घजि “ विश्रमेळ " ४।३।५६ इति वा वृद्धयभावे विश्रमः, विश्रामः । " शमष्टकाद्" ५।२।४९ इति घिनणि श्रमी ॥
___९१ भ्रमूच अनवस्थाने' । अनवस्थानं देशान्तरगमनम् । “ भ्रासम्लास." ३।४।७३ इति वा श्ये भ्राम्यति । पक्ष शवि भ्रमति । बभ्राम । पुष्यावङि अभ्रमत् । भ्रमिता । ऊदित्वात् कित्व वेद , भ्रान्त्वा, भ्रमित्वा । वेटत्वात् क्तयोनेट् , भ्रान्तः, भ्रान्तवान् । “शमष्टकाद्" ५।२।४९ इति घिनणि भ्रमी । घञि “मोऽकमि० " ४।३।५५ इति वृद्धयभावे भ्रमः । गौरादित्वाद् याम् भ्रमी । उणादौ " तृभ्रम्यद्या." ( उ० ६११ ) इति औ भृमादेशे च भूमिः वायुः, वाहुलकाद् भृमाऽभावे भ्रमिः, श्रमः । “ भ्रमिगमि० " ( उ० ८४३ ) इति डिद् ऊः, भ्रः । भ्रमू चलने [ ११९७० ], भ्रमति । " भ्रासम्लास० " ३।४७३ इति वा श्ये भ्राम्यति ॥
९२ क्षमौच सहने ' । क्षाम्यति । चक्षाम । पुष्याद्यङि अक्षमत् । औदित्वात् वेट् , क्षन्ता, क्षमिता । वेट्त्वात् क्तयोर्नेट् , क्षान्तः, क्षान्तवान् । "शमष्टकाद्" ५।२।४९ घिनणि क्षमी । घत्रि " मोऽकमि०" ४।३।५५ इति वृद्धथभावे क्षम: । तो शान्तिः । ऊदिदयमित्येके, क्षान्त्वा, क्षमित्वा । क्षमौषि सहने [ ११७८८ ], क्षमते, अक्षमिष्ट, पित्वादङि क्षमा ।।