SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २२०] आचार्यश्रीहेमचन्द्रविरचिते [ धा० ८७' ८७ शम , ८८ दमून् उपशमे' । " शम्सप्तकस्य." ४।२।१११ इति श्ये दीर्घे शाम्यति । " नेमादा." २२३१७९ इति नेणत्वे प्रणिशाम्यति । शशाम, शेमतुः । पुष्याद्यङि अशमत् । णौ " शमोऽदर्शने० " ४।२।२८ इति हूस्वे शमयति रोगम् । दर्शने तु निशामयति रूपम् । शमिता, शामतुम् । ऊदित्वात् कित्व वेट , शान्त्वा, शमित्वा । वेटत्वात् क्तयोर्नेट्, शान्तः, शान्तवान् । गौ ते " णौ दान्तशान्त " इति वा निपातनात् शान्तः । पक्षे " सेट्क्तयोः " ४।३।८४ इति गेलुकि शमितः । “शकितकि०" ५।१।२९ इति ये शम्यम् । विपि "अहन्पश्चम " ४।१।१०७ इति दीर्घे "मो नो० " २।१।६७ इति मस्य नत्वे तस्य च परेऽसत्वात् , “ नाम्नो नो." २।११९१ इति लुगभावे " नो प्रशानो." १।३।८ इत्यत्र प्रशानो वर्जनात् , अनुस्वाराऽनुनासिकपूर्वस्य शस्याऽभावे "तवर्गस्य०" १६३१६० इति नस्य अत्वे प्रशाञ् चरति । “शमष्टकात् घिनण" ५।२।४९ "मोऽकमि० " ४।३।५५ इति वृद्ध्यभावे शमशीलः शमी । घनि शमः । गौरादित्वात् ड्याम् शमी । क्तौ शान्तिः । उणादौ “शमिमनिभ्यां खः " (उ० ८४) शङ्खः । “कमितमि०" ( उ० १०७) इति डिति उभे शुङ्गाः कदल्यः । " पञ्चमात् डा" (उ० १६८) शण्डः उत्सृष्टः पशुः । “शमिषणिभ्यां ढः" ( उ० १७९) शण्डः क्लीवम् । “कैशीशमि० " ( उ० ७४९.) इति को शङ्कुः । शकृत् इति तु " 'शक ऋत् " ( उ० ८९१ ) इति शके: ऋति ।। ८८ दमूच्' । दाम्यति । ददाम । पुष्याङि अदमत् । दमिता । ऊदित्वात् कित्व वेट् , दान्त्वा, दमित्वा । वेटत्वात् क्तयोर्नेट , दान्तः, दान्तवान् । णौ “ अमोकम्यमि०" ४।२।२६ इति इस्वे फलवकर्तरि " ईगितः" ३।३९५ इति आत्मनेपदे, “अणिगि प्राणि " ३३१०७ इति परस्मैपदेनापोदिते, “परिमुहायमा० " ३३९४ इति पुनर्विहिते “ गतिबोधा०" २२२१५ इति अणिकर्तुः कर्मत्वे च दाम्यति अश्वः, दमयते अश्वं चैत्रः । “अकखाद्य० ॥ २॥३८. इति वा नेणत्वे प्रणिदमयते, प्रनिदमयते । “ शकितकि० " ५।१।१२९ इति ये दम्यः । नन्द्याधने कुलदमन: । "भृवृजि०" ५।१।११२ इति खे अरिन्दमः । “णौ दान्तशान्त०" ४।४।७४ इति क्ते वा निपातनाद् , दान्तः, दमितः । “शमष्टकाद्" ५।२।४९ इति घिनणि दमशीलः दमी। घनि दमः । उणादौ " पश्चमात् डः" ( उ० १६८ ) दण्डः । “दम्यमि०" ( उ० २०० ) इति १. "शके त्" इत्युणा दिसूत्रम् ।।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy