________________
८६ ] धातुपारायणे दिवादयः (३)
[ २१९ ( उ० २०० ) इति ते वितस्ता-नदी । “ प्लुज्ञा०" ( उ० ६४६) इति तौ वितस्तिः ॥
___ ८२ दसूच' । दस्यति । ददास । पुष्याघडि अदसत् । दसिता । ऊदित्वात् कित्व वेट् , दस्त्वा, दसित्वा । वेट्त्वात् क्तयोर्नेट् , दस्तः, दम्तवान् । ण्यन्तस्य क्ते “ णौ दान्तशान्त० " ४।४।७४ इति वा निपातनात् , दस्तः, दासितः । उणादौ " भीवृधि०" ( उ० ३८७ ) इति रे दस्रौ-देववैद्यौ । “युजि शुन्धि०" (उ० ८०१) इति युः, दस्युः, चौरः ॥
'८३ चम्च स्तम्भे' । वस्यति । ववास । पुष्याद्यङि अवसत् । वसिता । ऊदित्वात् कित्व वेट , वस्त्वा, वसित्वा । वेटत्वात् क्तयोनेंट् , वस्तः, वस्तवान् । उणादौ "दम्यमि० " ( उ० २०० ) इति ते वस्तः छागः । “ प्लुज्ञा." ( उ० ६४६) इनि तौ वस्तिः मेढोर्ध्वम् । वसं निवासे [११९९९ ], वसति, वस्ता । वसिक् आच्छादने [२.५९ ], वस्ते । वसण स्नेहच्छेदावहरणेषु [९।१९४ ], वासयति ॥
___ ८४ वुसच उत्सर्गे' । उत्सर्गः त्यागः । वुस्यति । वुवोस । पुष्याद्यङि अवुसत् । वोसिता, वुसितः । “ नाम्युपान्त्य०" ५।१।५४ इति के वुसम् ॥
- '८५ मुसच खण्डने' । मुस्यति । मुमोस । पुष्याद्यङि अमुसत् । मोसिता, मुसितः । उणादौ " शीरी०" ( उ० २०१) इति किति ते 'मुस्ता । " तृपिवयि०" ( उ० ४६८ ) इति किति अले मुसलम् । षान्तोऽयम् इत्यन्ये ।
'८६ मसैच परिणामे'। परिणामः विकारः । परिमाणे इत्यन्ये । मस्यति । ममास । पुष्याद्यङि अमसत् । मसित्वा । ऐदित्वात् क्तयोनेंट , मस्तः, मस्तवान् । घनि मासः । मास् इति प्रकृत्यन्तरं चन्द्राभिधायी । पूर्णमासा युक्ता साऽस्य पौर्णमासीति निर्देशात् अणि पौर्णमासी । उणादौ " दम्यमि० " (उ० २००) इति ते मस्तः । स्वार्थ के मस्तकः । “पदिपठि० " ( उ० ६०७) इति इ., मसिः शस्त्री । “ कृसिकमि० " ( उ० ७७३ ) इति तुनि मस्तु दधिमण्डः ॥
अथ शमादीनां सेटां सप्तकं श्ये दीर्घार्थ मदैच पर्यन्तं, क्लमपर्यन्तं चाष्टकं धिनणर्थ प्रदर्श्यते । तत्र च बहुत्वान्मान्ताः षडादौ ।
१. मुस्यति खण्डयति रोगान् मुस्ता । पतस्या लोके मोथ इति प्रसिद्धिः।
(निघण्टु शेष, ३८१, टी०)॥