________________
२१८ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ७८वेट्त्वात् क्तयोर्नेट् , अस्त:, अस्तवान् । “ऋवर्ण ०" ५।१।१७ इति ध्यणि आस्यम् । “कालेन तृष्य" ५।४।८२ इति गमि, "तृतीयोक्तं वा" ३।११५० इति वा समासे द्वथहात्यासम् , द्वयहमत्यासं गाः पाययति । " उणादौ “ शिक्यास्या०" ( उ० ३६४) इति ये निपातनात् आस्यम् । “वाश्यसि०" (उ० ४२३) इति उरे असुरः । “ पदिपठि०" (उ० ६०७) इति इ., असिः । “ वीसनि०" ( उ० ६६९) इति थिकि अस्थि । " मस्यसि०" (उ० ६९९ ) इति उरी असुरिः रण: । "भृमृत" ( उ० ७१६) इति उः, असवः प्राणाः । "सोरसे: " ( उ० ८५३) इति ऋः, स्वसा ॥
'७९ यसूच प्रयत्ने' । प्रयस्यति, आयस्यति । संपूर्वस्य अनुपसर्गस्य च "भ्रास-भ्लास०" ३।४।७३ इति वा श्ये संयस्यति, यस्यति, पक्षे शवि संयसति, यसति । ययास । पुण्याद्यङि अयसत् । यसिता, यसितम् । उदित्वात् क्त्वि वेट् , यस्त्वा, यसित्वा । वेट्त्वात् क्तयोर्नेट् , आयस्तः, आयस्तवान् । णौ फलवकर्तरि " इङितः०" ३२३२२ इत्यात्मनेपदे “अणिगि प्राणिकर्तृक० " ३।३।१०७ इति परस्मैपदेनापोदिते " परिमुहायमायस०" ३।३।९४ इति पुनर्विहिते आयासयते शत्रु मैत्रः । “प्राच यम" ५।२।५२ इति घिनणि प्रयासशीलः प्रयासी ॥
'८० जसूच मोक्षणे ' । जस्यति । जजास । पुष्यायडि अजसत् । जसिता अदित्वात् क्त्वि वेट , जस्त्वा, जसित्वा । वेटत्वात् क्तयोर्नेर् , जस्तः, जस्तवान् । णी हिंसार्थत्वाभावात् " जास-नाट०" २।२।१४ इति कर्मणो वा न कर्मत्वम् , तेन द्वितीया एव, चौरं बन्धनात् जासयति, मोचयति इत्यर्थः । हिसार्थोऽपीत्येके, तन्मते वा कर्मत्वे शेषषष्ठयां चौरस्य उजासयति, चौरमुञ्जासयति । “म्यजस०" ५।२६७९ इति रे अजासशीलं अजस्रं पचति । अजस्रः पाकः । धात्वर्थविशेषणत्वात् धात्वर्थकर्तृक एवाऽयं प्रयोज्यः, तेन " अजस्रो घटः" इति प्रयोगो. ऽसाधुः । जसण हिंसायाम् [ ९।१४६ ], चौरस्य उज्जासयति ॥
'८१ तम् , ८२ दसूच उपक्षये' । तस्यति । ततास । पुष्याद्यङि अतसत् । तसिता । उदित्वात् क्त्वि वेट् , तस्त्वा, तसित्वा । वेदत्वात् क्तयोर्नेट , तस्तः, तस्तवान् । “तिकृतौ०" ५।११७१ इति तिकि 'वितस्तिः । उणादौ "दम्यमि०"
१. लोके वहिथी [ येत ] इति. (लिं. दु. प.) ॥