________________
आचार्यश्रीहेमचन्द्रविरचिते [धा० ६७
भावे श्लिष्टं मैत्रेण । साप्यादपि “श्लिषशी" ५।१।९ इति वा कर्तरि क्ते आश्लिष्टो मैत्रः कन्याम् , पक्षे कर्मणि क्ते आश्लिष्टा कन्या मैत्रेण । लिहाधचि श्लेषः । उणादौ "भ्रणतण." (उ० १८६) इति णे निपातनात् लक्ष्णः । " मन्" (उ० ९११) इति मनि श्लेष्मा । श्लिषू दाहे [११५३१ ], श्लेषति, 'अश्लेषीत् । श्लिषण श्लेषणे [९।१३७] श्लेषयति ॥
'६८ प्लुषच दाहे' । प्लुष्यति । पुप्लोष । पुष्याद्यङि अप्लुषत् । प्लोषिता । उदित्वात् वित्व वेट् , प्लुष्ट्वा, “वौ व्यञ्जनादेः०" ४।३।२५ इति, सेटो वा किच्चे प्लुषित्वा, प्लोषित्वा, वेट्त्वात् क्तयोर्नेट् , प्लुटः, प्लुष्टवान् । अनूदिदयमित्येके । उणादौ " लुः प्लषु च " ( उ० ५६६ ) इति से प्लक्षः । प्लुपू दाहे [११५३३], प्लोषति । ग्रुष-प्लुष स्नेह-सेचन-पूरणेषु [८५४, ५५] प्लुष्णाति ॥
'६९ मितृषच पिपासायाम् ' । तृष्यति । ततर्ष । पुष्याद्यङि अतृषत् । तर्षिता । जीवात् “ ज्ञानेच्छा." ५।२।९२ इति सति क्ते तृषितः, तृषितवान् । "ऋत्तृष० " ४।३।२४ इति सेटः क्त्वो वा कित्त्वे तषित्वा, तर्षित्वा । " तृषिधृषि०" ५।२१८० इति नजिङि तर्षशीलः तृष्णक । जि तपः । “क्रुत्संपदा." ५।३।११४ इति क्विपि तृट् । मिदाद्यङि तृषेत्येके । “कालेन०" ५।४।८२ इति णमि " तृतीयोक्तं वा" ३११५० इति वा समासे द्वघहर्षम् , द्वहं तर्ष गाः पाययति । उणादौ "घृवीह्वा०" (उ० १८३) इति किति णे तृष्णा, "मृगयेच्छा" ५।३।१०१ इति निपातनाद्वा ॥
'७० तुषं, ७१ हृषच तुष्टौ' । तुष्टिः प्रीतिः । तुष्यति, तुतोष । पुष्याघडि अतुषत् , अनुस्वारेवानेट , तोष्टा, तुष्ट्वा । शील्यादित्वात् सति क्ते तुष्टः, तुष्टिः । " नाम्युपान्त्य० " ५।१५४ इति के तुषः । उणादौ "तुषिकुठिम्यां० " (उ० ४०८) किति आरे तुषारः ॥
'७१ हृषच्' । हृष्यति । जहर्ष । पुष्याद्यङि अह्रषत् । हर्षिता, हर्षितः, हृषितवान् । " हृषेः केश०" ४।४।७६ इति वा नेटि हृष्टाः, हृषिताः केशाः, हृष्टानि, हृषितानि लोमानि, हृष्टः, हृषितः छात्रः, हृष्टाः, हृषिताः दन्ताः । अदिदयमिति 'नन्दी । अलीकार्थोऽयमित्येके । उणादौ " हृपिवृति०" ( उ० ४८५) इति उले हर्षुलः कामी । हृषू अलीके [ ११५३५], हर्षति ।।
१. अश्लेषीत इति मु०॥ २. विश्वनन्दी इति हैमप्रकाशे (पृ. ५९८)।