SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २१४ ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० ५९अथ शान्ताः षट् सेटश्च ॥ "५९ नशौच अदर्शने' । अदर्शनम्-अनुपलब्धिः । नश्यति । "नश: शः" २।३।७८ इति नस्य णत्वे प्रणश्यति । ननाश, नेशतुः । पुष्पायङि " नशेर्नेश्वा'." ४।३।१०२ इति वा नेशाऽऽदेशे अनेशत् , अनशत् । औदित्वात् वेट् , “ नशो धुटि" ४।४।१०९ इति ने नष्टा, नशिता । " नशः शः" २।३७८ इति षान्तस्य न णत्वम् , प्रनक्ष्यति । शान्तस्य णत्वे प्रणशिष्यति । " जनशो नि०" ४।३।२३ इति वा किन्वे नष्ट्वा, नंष्ट्वा, नशित्वा । वेट्त्वात् क्तयोर्नेट् , नष्टः, नष्टवान् । णत्वाभावे प्रनष्टः । विपि “ नशो वा" २२११७० इति वा गत्वे नश्यति इति नक्, पक्षे " यजसृज०" २२११८७ इति पत्वे नट् । “क्रुत्संपदा०" ५।३।११४ इति क्विपि जीवनक, जीवनटू । णौ फलवत्कर्तर्यपि "चल्याहारार्थ." ॥३॥१०८ इति परस्मैपदे नाशयति । नन्द्याधने नाशयतीति नाशनः । “निन्दहिंस०" ५।२।६८ इति णके विनशनशीलो विनाशकः । " सृजीण " ५।२७७ इति ट्वरपि नश्वरः, नश्वरी । “कर्तुर्जीव०" ५।४।६९ इति णमि जीवनाशं नष्टः । उणादौ "जिभृमृ० " ( उ० ४४७) इति त्रुटि वृद्धौ च नाष्ट्रा यातुधानाः ॥ '६० कुशच श्लेषणे' । कुश्यति, चुकोश । पुष्याद्यङि अकुशत् । कोशिता। " नाम्युपान्त्य०" ५।११५४ इति के कुशः । “ भाजगोण०" २।४३० इति छुथाम् कुशी आयसी चेत् । कुशा अन्या । घनि कोशः । गौरादित्वात् ड्यां कोशी । उणादौ " तृपिवपि० " ( उ० ४६८) इति किति अले कुशलम् । " कुशिकमिभ्यां कुलकुमौ च" (उ० ५०३) इति मलकि कुल्मलम्-छेदनम् ॥ '६१ भृशू ६२ भ्रंशूच अधःपतने' । भृश्यति । बभर्श । पुष्याघडि अभृशत् । भर्शिता । ऊदित्वात् क्त्वि वेट् , भृष्ट्वा, "क्त्वा" ४।३।२९ इति कित्त्वाभावे भर्शित्वा । वेट्त्वात् क्तयोर्नेट् , भृष्टः, भृष्टवान् । “नाम्युपान्त्य." ५।११५४ इति के भृशः ॥ '६२ भ्रंशून्' । भ्रश्यति । बभ्रंश । पुष्याघडि अभ्रशत् । भ्रंशिता । अदित्वात् क्त्वि वेट , भ्रष्ट्वा, अंशिवा । वेट्त्वात् क्तयोनेंट , भ्रष्टः, भ्रष्टवान् । "वश्वास" ४।११५० इत्यत्र धंसिसहचरितस्य म्वादेरेव भ्रंशेग्रहणात् न्यभावे यङि वाभ्रश्यते । प्रशृङ् अवलंसने [ ११९५२ ], अंशते, अभ्रंशिष्ट, बनीभ्रश्यते । क्विपि “घ पसर्गस्य० " ३।२।८६ इति बाहुलकाद् दीर्चे वहाभ्रट् ॥ १. था० इति मु० ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy