________________
५८ ] धातुपारायणे दिवादयः (३)
[ २१३ '५० युप, ५१ रुप, ५२ लुपच् विमोहने' । युप्यति, रुप्यति, लुप्यति । पुष्याद्यङि अयुपत् , अरुपत् , अलुपत् । “वो व्यअनादेः०" ४।३।२५ इति क्वासनोः वा किन्वे युपित्वा, योपित्वा, युयुपिषति, युपोपिषति । एवं रुपलुपोरपि । घजि रोपः-शरः । उणादौ " शिक्यास्थाढय० " ( उ० ३६४ ) इति ये निपातनात् रुप्यतीति रूप्यं-रजतम् । लुप्लती छेदने [ ५९ ], लुम्पते, लुम्पति ॥
'५३ डिपच क्षेपे' । डिप्यति, डिडेप । पुण्याद्यङि अडिपत् । डेपिता । "शकितकि० " ५।१।२९ इति ये डेप्यम् । डिपत् क्षेपे [ ५।१४४ ], डिपति । डिपण क्षेपे [ ९।१०१] डेपयति ।।
'५४ ष्ट्रपच् समुच्छाये' । “पः सो०" २३।९८ इति सत्वे स्तूप्यति । षोपदेशत्वात् “ नाम्यन्तस्था० " २।३।१५ इति षत्वे तुष्ट्रप । पुष्याद्यङि अस्तूपत् । णौ सनि “णिस्तोरेवा० " २।३।३७ इति षत्वे तुष्ट्रपयिषति । स्तूपिता, स्तू. पितुम् । 'ष्ट्रपण समुच्छाये [९।१००.], स्तूपयति । अलि स्तूपः ॥
अथ भान्ताश्चत्वारः सेटश्च ॥ - '५५ लुभच् गार्द्धये । गाद्धर्थम्-अभिकाङ्क्षा । लुभ्यति, लुलोभ । पुष्याघडि अलुभत् । लोभिष्यति । तादौ " सहलुभ० " ४।४।४६ इति वेटि लोब्धा, लोभिता । वेट्त्वात् क्तयोनेंट , लुब्धः, लुब्धवान् । लुभत् विमोहने [५।७६ ], लुभति । विलुभिता: केशाः ॥
५६ शुभच् संचलने' । संचलनं-रूपान्यथात्वम् । क्षुभ्यति, चुक्षोभ । पुष्याद्यङि अक्षुभत् । क्षोभिता । "क्षुब्धविरिन्ध०" ४।४।७० इति ते निपातनात् क्षुब्धः मन्थः । क्षुभित: अन्यः । क्षुभि संचलने [ ११९४८ ], क्षोभते । शुभ संचलने [ ८४६ ], क्षुम्नाति । धुतादिपठितेनेव अक्षुभत् इति सिद्धम् , श्यविकरणार्थ तु दिवादी अयमवश्यं पठितव्य इति पुण्यादावपि पठितः ॥
'५७ णभ ५८ तुभच हिंसायाम्' । “पाठे." २२३९७ इति नत्वे नभ्यति । णोपदेशत्वात् “अदुरुपसर्ग० " २१३७७ इति णत्वे प्रणम्यति । ननाम । पुण्याद्यङि अनभत् । नभिता । “ शकितकि०" ५।१।२९ इति ये नभ्यम् ॥
५८ तुभच् ' । तुभ्यति, तुतोभ । पुष्याघडि अतुभत् । तोभिता । णमि तुभि हिंसायाम् [११९४९, ९५० ], नभते, तोभते । णभ-तुभश् हिंसायाम् [८१४७, ४८ ], नभ्नाति, तुम्नाति ॥ ___ १. ष्टुपण इति मु० ॥