SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० ४५ __४५ रघौच हिंसासरायोः ' । संसद्धिः पाकः । रध्यति । “रध इटि." ४।४।१०१ इति ने रन्ध । संयोगान्तत्वात् परोक्षायाः किवाभावे रन्धतः । " स्क्रसृवृ०" ४४८१ इति इटि रन्धिव, ररन्धिम । क्वसौ " अनादेशादेः०" ४।१।२४ इति एत्वे कृते, एकस्वरत्वात् " घसेकस्वरातः०" ४४८२ इति इटि " रध इटि० " ४।४।१०१ इति नाऽऽगमे, कित्वात् न लुकि च रेधिवान् । पुष्याघडि “नो व्यान०" ४।२।४५ इति न लुकि अरधत् । औदिचात् वेट , " इटि तु परोक्षायामेव" ४।४।१०१ इति नियमात् नाभावे रधिता, अरधिष्यत् । पक्षे रद्धा, अरत्स्यत् । वेट्त्वात् क्तयोर्नेट् , रद्धः, द्धवान् । णौ रन्धयति । पिच संगद्धौ [३।४२ ] रघौच हिंसायां च इत्यकृत्वा अस्याऽत्र निर्देशः संसद्धिभेदज्ञापनार्थः ।।. अथ पान्ता नव सेटश्च ॥ '४६ पौच प्रीती' । प्रीतिः सौहित्यम् । तृष्यति, ततर्प, पुण्याद्यङि अतृपत् । " स्पृशमृश० " ३।४।५४ इति वा सिचि अतासीत् । “स्पृशादि०" ४।४।११२ इति स्वरात्परे वाऽति अत्राप्सीत् । इटि अतीत् । औदिचात् वेट् , तर्पिता, तप्र्ता, वप्ता । वेटत्वात् क्तयोनेंट् , तृप्तः, तृप्तवान् । उणादौ "ऋज्यजि." (उ० ३८८ ) इति किति रे तृपं दुःखम् । तृपट् प्रीणने [ ४।२३ ] तृप्नोति ॥ '४७ दृपोच हर्षमोहनयोः । मोहनं गर्वः । दृप्यति, ददर्प । पुष्यायडि अदपत् । " स्पृशमृश० " ३।४।५४ इति वा सिचि अदासीत् । " स्पृशादि." ४।४।११२ इति स्वरात्परे वाऽति अद्राप्सीत् । इटि अदीत् । औदित्वात् वेट् , दर्पिता, दर्ता, द्रप्ता । पेट्त्वात् क्तयोर्नेट् , दृप्तः, दप्तवान् । उणादौ "ऋज्यजि०" (उ० ३८८ ) इति किति रे दृप्रम् बलम् , दृप्रा बुद्धिः ॥ ४८ कुपच क्रोधे' । कुप्यति, चुकोप । पुष्यादित्वादडि अकुपत् । कोपिता, कोपितुम् , कुपितः । भूषाक्रोधा." ५।२।४२ इति अने कोपशीलः कोपनः । लिहायचि पनि च कोपः ॥ __ ४९ गुपच् व्याकुलत्वे'। गुप्यति, जुगोप । पुष्याद्यङि अगुपत् । गोपिता । " कुप्यमिद्य०" ५।१।३९ इति निपातनात् क्यपि कुप्यम् सुवर्णरजताभ्यामन्यत् । “ शकितकि०" ५।१।२९ इति ये गोप्यमन्यत् । गुपौ रक्षणे [ ११३३२ ] गोपायति । गुपि गोपनकुत्सनयोः [ ११७६३ ], जुगुप्सते । गुपण भासार्थः [ ९।२२१ ], गोपयति ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy