________________
२०२ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० १
(उ० ९०१) इति किति अनि दिवा, दिवानौ । प्रतिदिवनः, प्रतिदिवना । " दिवेर्डिव् " ( उ० ९४९) इति डिवि द्यौः, दिवौ । चित्करणं दिवादिज्ञापनार्थम् । एवं सर्वत्र ॥
___ अथ ऋदन्तौ सेटौ च ॥ '२ जूष ३ अषच् जरसि' । जरा वयोहानिः । “दिवादेः श्यः" ३।४।७२ जीयति । जजार । “जभ्रम" ४।१।२६ इति अतो वा एत्वे द्वित्वाभावे "स्कृतो." ४।३।८ इति गुणे च जेरतुः, जजरतुः । "ऋदिच्छ्वि० " ३४६५ इति अङि "ऋवर्ण" ४।३७ इति गुणे अजस्त् ; पक्षे सिचि "सिचि परस्मै०" ४।३।४४ इति वृद्धौ अजारीत् । " वृतो नवा" ४।४।३५ इति इटो वा दीर्घ जरीता, जरिता । सनि " इवृध०" ४४४७ इति वेटि जिजरिषति, जिजरीषति, जिजीपति । " इट सिजाशिषोः०" ४।४।३६ इति वेटि अजरिष्ट, अजरीष्ट स्वयमेव; पक्षे “ ऋवर्णात् " ४।३।३५ इति सिचः कित्वे अजीष्ट स्वयमेव । एषु " एकधातौ० " ३।४।८६ इति कर्मकर्तर्यात्मनेपदम् , किरादित्वाच्च "भूषार्थ." ३।४।९३ इति जिच नास्ति, जरिपीट, जरीषीष्ट, जीर्षीष्ट । णौ “कगे०" ४।२।२५ इति हूस्वे जरयति । किति "ऋवर्णश्रि" ४४।५७ इति नेट् , “ गत्यर्थाकर्मक०" ५।१।११ इति वा कर्तरि क्ते जीर्णः चैत्रः; पक्षे भावे जीणं चैत्रेण । साप्यादपि " श्लिषशी० " ५।१।९ इति वा कर्तरि क्ते अनुजीर्णो घृषली चैत्रः; पक्षे कर्मणि अनुजीर्णा वृषली चैत्रण । अकर्मका अपि हि सोपसर्गाः सकर्मका भवन्ति । क्त्वि " जुत्रश्च ०" ४।४।४१ इति इटि जरित्वा जरीत्वा । " संगतेऽजयम् " ५।११५ न जीर्यति [इति ] अजयम् आर्यसंगतम् । अचि जरः । पृषोदरादित्वात् कुञ्जरः । भृते " जुषोऽतः" ५।१।१७३ जरन् , जरती । पिवादङि " ऋवर्ण" ४।३७ इति गुणे जरा । करणाधारे " न्यायावाय." ५।३।१३४ इति पापवादे पनि जारः । उणादौ " ऋतष्टित् " ( उ० ९) इति अ, सरूपे च द्वे रूपे, जर्जरः अदृढः, जर्जरी स्त्री । “विशिभ्यामन्तः " ( उ० २१९) जरन्तः वृद्धः । जश् वयोहानी [८१२९] जृणाति जण वयोहानौ [९।३८१], युजादित्वाद्वा णिचि जारयति, जरति ।।
३ झुपच्' । झीर्यति, जझार । “स्कृच्छ्तो०" ४।३।८ इति गुणे जझरतुः । झरिता । अचि अलि च झरः निर्झरः । पिचादङि "ऋवर्ण" ४१३७ इति गुणे झरा । अपिदयमित्यन्ये । उणादौ "ऋतष्टित् " ( उ० ९) इति अः सरूपे च द्वे रूपे, झझरः वाद्यविशेष:, झझरी झल्लरिका । “सृणीकास्तीक०" (उ० ५० ) इति ईके निपातनाद् झझरीकः देहः, झझरीका वादित्रमाण्डम् ॥