________________
अथ दिवादयः॥ अथ श्यविकरणा दिवादयो वर्णक्रमेण निर्दिश्यन्ते । तत्रापि पूर्वाचार्यप्रसिद्धयनुरोधेन आदौ
१ दिवच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' । जयेच्छा विजिगीषा, पणिः व्यवहारः क्रयादिः । " दिवादेः " ३।४।७२ इति श्ये "म्बादेः०" २०११६३ इति दीर्घ च दीव्यति । " उपसर्गाद् दिवः" २।२।१७ इति विनिमेय-द्यूतपणयोः कर्मणो वा कर्मत्वे " शेषे” २१२१८१ इति षष्ठयां शतस्य प्रदीव्यति, शतं प्रदीव्यति । अनुपसर्गस्य "न" २।२।१८ इति कर्मत्वाभावे शतस्य दीव्यति । " करणं च" २।२।१९ इति करणस्य कर्मत्वकरणत्वयोः अक्षान् दीव्यति , अक्षः दीव्यति; वा इत्यनुक्त्वा " करणं च" २।२।१९ इत्यत्र चकारकरणं संज्ञाद्वयसमावेशार्थम् , तेन करणत्वात् तृतीया, कर्मत्वाच्च अनाप्यलक्षणम् अणिकर्तुणों कर्मत्वम् , " अणिगि प्राणिकर्तृक० " ३।३।१०७ इति परस्मैपदं च न. भवति, अक्षेर्देवयते मैत्रश्चैत्रेण । दिदेव, देविता । सनि “ इवृध०" ४४४७ इति वेटि इडभावे " अनुनासिके च० " ४।१।१८८ इति वस्य ऊटि दुयषति, दिदेविषति । ऊदिचात् क्त्वि वेट , घूत्वा, देवित्वा, “क्त्वा" ४।३।२९ इति विवाभावादत्र गुणः । वेट्त्वात् क्तयोर्नेट् , द्यूतः, धतवान् । द्यूतादन्यत्र “पूदिव्यश्चः" ४।२।७२ इति क्तयोस्तस्य नत्वे आयुनः, आद्यनवान् । लिहायचि देवः । गौरादित्वाद् ङयां देवी । णके देवकः, देविका नदी । क्विपि अक्षयः । ण्यन्तात् विपि दयः । " उपसर्गाद् देव." ५।२।६९ इति णके आदेवयतीत्येवंशीलः आदेवकः, एवं परिदेवकः । उणादौ " दिव्यवि० " ( उ० १४२ ) इति अटे देवटः देवकुलविशेषः शिल्पी च । देवर इति तु देवतेः “ ऋच्छिचटि." ( उ० ३९७) इति अरे । देवल इत्यपि अस्यैव "मृदिकन्दि०" ( उ० ४६५ ) इति अले । “छविछिवि०" (उ० ७०६) इति 'कि(ङि)ति वौ निपातनाद् दीविः कितवः कालश्च । दिदिविः स्वर्गः । दीदिविः अन्नं स्वर्गश्च । किकीति कुर्वन् दीव्यति किकिदीविः चापः । " दिव ऋः" ( उ० ८५२) देवा देवरः पितृव्य स्त्री च । “लुपूयु."
१. ७०५ तमात् उणादिसूत्रात् ङित्प्रत्ययस्यानुवृत्तिः ॥