________________
१९६ ]
आचार्यश्रीहेमचन्द्रविरचिते [धा० ७९भावे च प्रमित्सते । अनुस्वारेत्त्वान्नेट् , माता, मातव्यम् । “ य एञ्चा०" ५।१।२८ इति ये मेयम् , प्रमेयम् । किति तादौ " दोसोमास्थ इ:" ४।४।११ प्रमितः, प्रमितवान् । " श्रवादिभ्यः " ५।३।९२ इति क्तौ प्रमितिः । " उपसर्गात्० " ५।३।११० इति अङि प्रमा, करणेऽनटि प्रमाणम् ।।
___ अथोभयपदिनः षडनिटश्च ॥ तत्राऽऽदन्तौ
'८० डुदांग्क् दाने' । गित्वात् फलवकर्तरि “ ईगितः". ३।३।९५ इति आत्मनेपदे, “ हवः०" ४।१।१२ इति द्वित्वे, "श्नश्वा० " ४।२।९६ इति आल्लुकि च दत्ते । " नेङमादा" २१३७९ इति नेणत्वे प्रणिदत्ते । फलवतोज्यत्र "शेषात्" ३।३।१०० इति परस्मैपदे ददाति, प्रणिददाति, दत्तः । आपूर्वात् “ दागोऽस्वाऽऽस्य०" ३।३।५३ इति आत्मनेपदे विद्याम् आदत्ते । “एषामी." ४।२।९७ इत्यत्र दो वर्जनात् अत्र इत्वाभावः । “अन्तो नो लुक्" ४।२।९४ ददति ददतु । शतरि ददत् । “शौ वा” ४।२।९५ ददति ददन्ति कुलानि । “हौ दः" ४।१।३१ इति स्वरस्य एत्वे द्वित्वाभावे च देहि । “ द्वयुक्त०" ४।२।९३ इति शिदनः पुसि अददुः । " पिवैति०" ४।३।६६ इति सिचो लुपि अदात् । अद्यतन्यामात्मनेपदे " इश्च स्थादः" ४।३।४१ इति कित्त्वे दः इत्वे च अदित । " आतो णव
ओः" ४।२।१२० ददौ । आददे । आशिषि "गापास्था०" ४।३।९६ इति एः, देयात् , क्तिोऽन्यत्र दासीष्ट । सनि “ मिमी." ४।१।२० इति स्वरस्य इति द्वित्वाभावे च दिसते, अत्र फलवकर्तरि " प्राग्वत् " ३।३७४ इति आत्मनेपदम् । अन्यत्र “शेषात्" ३३।१०० इति परस्मैपदे दित्सति । अनुस्वारेक्वान्नेट् , दाता दातव्यम् । “य एच्चा०" ५।१।२८ इति ये देयम् । “ तन्व्यधी०" ५।११६४ इति णे दायः । दद इति तु ददतेः अचि । " आतो डो०" ५।११७६ इति अणपवादे डे गोदः । “दश्वाङः" ५।११७८ दायादः । “प्राज्ञश्च" ५।१७९ धर्मप्रदः । “ प्रादाग०" ४।४७ इति वा ते दातुमारब्धं प्रसम् , पक्षे " दत् " ४।४।१० इति दति प्रदत्तम् । " निविस्वन्ववात् " ४ ४।८ इति वा त्ते, "दस्ति" ३२१८८ इति दीर्घ च नीतम् वीत्तम् , सूत्तम् , अनूत्तम् , अवत्तम् , पक्षे " दत् " ४।४।१० इति दति, निदत्तम् इत्यादि । " स्वरादुपसर्गाद्" ४।४।९ इति ते आत्तः उपात्तः । " दत् " ४।४।१० इति दति, डिवत्वात्रिमकि दानेन निवृत्तं दत्रिमम् । “ दाट्धेसि०" ५।२।३६ इति रौ दानशीलो दारुः । " भावाकोंः ५३।१८ घनि दायः । " उपसर्गाद् दः किः" ५।३।८७ आदिः ।