________________
१९४ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ७६
पपर्थ । वे " स्क्रसृवृ०" ४।४।८१ इति इटि पप्रिव । ऋदन्तोऽयं सेट् च, इत्येके । तन्मते 'तसि " ओष्ठयाद्" ४|४|११७ इति उरि, "म्बादेः" २०११६३ इति दीर्घ च पिपूर्तः । अन्तौ पिपुरति । परोक्षायां " ऋः शदृ०" ४।४।२० इति वा ऋः, निपप्रतुः, निपाः; पक्षे “ स्कृच्छतो." ४।३।८ इति गुणे निपपरतुः निपपरुः । थवि " स्क्रसृवृ०" ४।४।८१ इति इटि निपपरिथ । वे निपप्रिव, निपपरिख । अनुस्वारेच्चान्नेट् , पर्ता पर्तुम् । " हनृतः" ४४४९ इति इटि परिष्यति । क्तयोः व्यापृतः, व्यापृतवान् । येषां तु दीर्घान्तः तन्मते "ऋवर्ण" ४४५७ इति इडभावे, “ ऋवादे." ४।२।६८ इत्यत्र प्रो वर्जनात् क्तयोस्तस्य नत्वाभावे पूनः, पूर्तवान् । णौ " साहिसाति० " ५।११५९ इति शे पारयः । घनि पारः । " णो दान्तशान्त० " ४।४।७४ इति क्त वा पूर्ण इति निपातनमस्याऽपि इत्येके, तन्मते णौ ते पूर्णः, पारितः । पूरित: इति तु पूरेचेः ण्यन्तात् क्ते ॥
७७ ऋक् गतौ' । " हवः शिति" ४।१।१२ इति द्वित्वे " प्रभृमा०" ४।१।५८ इति पूर्वस्य इत्वे " पूर्वस्यास्वे० " ४।१।३७ इति इयि “नामिनो० " ४।३।१ इति गुणे इयति । इयत: इथति, "श्रौति०" ४।२।१०८ इत्यत्र "अत्यादौ" ४।२।१०४ इत्यधिकारात् अत्र ऋच्छाऽऽदेशाभावः । संपूर्वात् “समो गमृच्छि०" ३।३।८४ इति आत्मनेपदे समियते । आप्ये तु सति " शेषात् परस्मै" ३॥३॥१०० इति परस्मैपदे समिति मित्रम् । “ अस्यादेः" ४।१।६८ इति पूर्वस्य आत्वे ऋदादिस्वाभावात् "अनातो." ४।१।६९ इति नन्ताभावे, आर, आरतुः, आरुः । " इन्ध्यसंयोगा०" ४।३।२१ इति अवित्परोक्षायाः कित्वेऽप्यत्र "संयोगात् " २१११५२ इति गुणः । “क्थयङ०" ४१३।११० इति गुणे अर्यते । “अव्यति" ३।४।१० इति यङि अगर्यते । आशीर्य अर्यात् । सप्तम्याम् इयूयात् । अद्यतन्यां " सय॑तः०" ३।४।६१ इति वाडि - आरत , आषीत् । थवि "ऋत्येद० " ४४८० इति इटि आरिथ । सनि "ऋस्मिपूङ०" ४।४।४८ इति इटि स्वरस्य कार्यित्वाद् द्वित्वं प्रति निमित्तत्वाभाव इति पूर्व स्वरादेशे गुणे पश्चात् “ स्वरादेः " ४।१।४ इति द्वितीयांशस्य द्वित्वे अरिरिषति । अनुस्वारेचान्नेट् , अर्ता, अतुम् । "ऋही." ४।२।७६ इति क्तयोस्तस्य वा नत्वे ऋणम् ऋतम् । णौ "अतिरी०" ४।२।२१ इति पौ अर्पयति । उणादौ " ऋक्व ० " (उ० १९६) इति उणे १. तस्योष्ठया” इति मु० ॥ २. ऋच्छाभावः इति मु०।