________________
७६ ] धातुपारायणे अदादयः (२)
[१९३
अथेदन्तावनिटौ च ॥ * ७४ जिभोक् भये' । बुद्धिसंसर्गपूर्वकेऽपायेऽवधित्वात् अपादानत्वे " पश्चम्यपादाने " २।२।६९ इति पञ्चम्यां चौराद् बिभेति । “भियो नवा" ४।२।९९ इति वा इत्वे विभितः, पक्षे विभीतः । विभ्यति । " द्वयुक्त०" ४।२।९३ इति शिदनः पास " पुस्पौ" ४।३।३ इति गुणे अविभयुः । “ मीही." ३।४।५० इति परोक्षाया वा आमि विभयाञ्चकार बिभाय । हेतुकतृतो भये वर्तमानस्य णौ " विभेतेीष् च" ३३९२ इति आत्वे भीषादेशे आत्मनेपदे च मुण्डो भापयते, मुण्डो भीषयते । करणाद् भये तु कुश्चिकौंन भाययति । “भियो रुरुकलुकम्" ५२।७६ भयशीलो भीरुः, भीरुकः, भीलुकः; किवादत्र न गुणः । “ वर्षादय: क्लीबे" ५।३।२९ इति अलि भयम् । “ भ्यादिभ्यो वा" ५।३।११५ इति वा विपि भीः, पक्षे तो भीतिः । उणादौ " मीणशली०" ( उ० २१) इति के मेकः मण्डूकः कातरश्च । “शीमी० " ( उ० ७१) इति आनके भयानकः । " भियः षोऽन्तश्च वा" (उ० ३४४) इति किति मे भीमः भीष्मः । "भीवृधि०" ( उ० ३८७ ) इति रे मेरः दुन्दुभिः कातरश्च । ऋफिडादित्वात् लत्वे भेल: चिकित्साग्रन्थकारः अप्राज्ञश्च ॥
'७५ ह्रींक लजायाम् ' । जिहेति, जिहीतः “ योऽनेकस्वरस्य " २१५६ इति यापवादे, “संयोगात् " २२११५२ इति इयि जिट्टियति । " द्वयुक्त०" ४।२।९३ इति शिदनः पुसि " पुस्पो" ४।३।३ इति गुणे अजिह्युः । “भीहो." ३।४।५० इति परोक्षाया वा आमि जियाञ्चकार जिहाय । यङि जेडीयते । णौ " अतिरी० " ४।२।२१ इति पौ " पुस्पो" ४।३।३ इति गुणे हेपयति । अनुस्वारेच्चान्नेट , दूता, हेतुम् । “ ऋहीघ्रा०" ४।२।७६ इति क्तयोस्तस्य वा नत्वे हीणः, हीतः, हीणवान् , हीतवान् । “य एच्चा० " ५।१।२८ इति ये हेयम् । “क्रुत्संपदा०" ५।३।११४ इति क्विपि हीः । उणादौ " हीयो रश्च लोवा" ( उ० २५) इति किति के हीकः ह्रीकश्च सलजः । “ हियः किद्रो लश्च वा" ( उ० ७५० ) इति को हीः ह्रीकुश्च त्रपु जतुनी, लज्जावाँश्च ॥
अथ ऋदन्तावनिटौ च ॥ “७६ पृक पालनपूरणयोः' ।" पृभृमा०" ४।१।५८ इति पूर्वस्य इत्वे पिपति, पिपृतः, पिप्रति, पपार, पप्रतुः । थवि "ऋतः" ४।४७९ इति नेटू , २५