________________
७२ ] धातु पारायणे अदादयः (२) अदुग्ध गौः स्वयमेव, अदोहि गौः स्वयमेव । " हशिटो०" ३।४५५ इति सकि अधुक्षत् । वतवर्गादावात्मनेपदे “ दुहदिह०" ४।३।७४ इति सको वा लुकि अदुबहि, अधुक्षावहि, अदुग्ध, अधुक्षत, अदुग्धाः, अधुक्षथाः । अनुस्वारेचान्नेट् , दोग्धा दोग्धुम् । “ कृवृषि०" ५।१।४२ इति वा क्यपि दुह्या गौः, पक्षे "ऋवर्ण०" ५।१।१७ इति ध्यणि दोह्या । विपि गोधुक् । “दुहेडुघः" ५।१।१४५ कामदुधो धर्मः । “युजभुज०" ५।२।५० इति घिनणि दोही । बाहुलकात् खलपवादेने सुदोहनः । घनि दोहः । उणादौ " कुमुद०" (उ० २४४ ) इति अदे निपातनात् दोहदः अभिलाषविशेषः । “ त्वष्ट ०" ( उ० ८६५ ) इति तृप्रत्यये निपातनाद् दुहिता ॥
७० दिहींक लेपे । दिग्धे देग्धि । " नेङमादा०" २१३७९ इति नर्णत्वे प्रणिदेग्धि । " हशिटो. " ३४५५ इति सकि अधिक्षत् । वतवर्गादौ आत्मनेपदे वा सको लुकि अधिक्षावहि, आदिबहि, अधिक्षत, अदिग्ध । संदिदेहे, संदिदेह । यडि देदिह्यते । यङलुपि देदिहीति, देदेग्धि । अनुस्वारेचान्नेट् , देग्धा, दिग्धः, संदिग्धः । उणादौ "मृदिकन्दि०" (उ० ४६५) इति अले देहली द्वाराऽधोदारु ॥ __. “७१ लिहीक आस्वादने' । लीटे, लेढि । " हशिटो. " ३।४।५५ इति सकि अलिक्षत् । वतवर्गादावात्मनेपदे वा सको लुकि अलिह्वहि, अलिक्षावहि, अलीढ, अलिक्षत । लिलिहे, लिलेह । यडि लेलिह्यते । यङ्लुपि लेलिहीति, लेलेढि । अनुस्वारेचान्नेट् , लेढा, लेढुम् । “ऋवर्ण" ५।१।१७ इति ध्यणि लेह्यम् । लिहायचि लेहः, आलेहः । बाहुलकात् " नाम्युपान्त्य०" ५।११५४ इति के लिहः । उणादौ " लिहेर्जिह च" ( उ० ५१३) इति वे जिह्वा ।
अथ अदाद्यन्तर्गणो ह्वादयः ॥ '७२ हुंक दानादनयोः' । दानमत्र हविष्प्रक्षेपः । अदनं भक्षणम् । “ हवः शिति " ४।१।१२ इति द्वित्वे, “ उत औः०" ४।३।५९ इत्यत्र अद्वः इत्युक्तेः
औत्वाभावे जुहोति । जुहुतः । “हिणोर०" ४।३।१५ इति वत्वे " अन्तो नो लुक० " ४।२।९४ इति न लुकि च जुह्वति । " द्वयुक्त०" ४।२।९३ इति शिदनः पुसि, " पुस्पो" ४।३।३ इति गुणे अजुवुः । “ भी ही." ३।४।५०
१. “हे र्दुघः इति मु० ।