SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १८८] आचार्यश्रीहेमचन्द्रविरचिते [फा० ६४ अथ क्षान्तः सेट् च ॥ '६४ चक्षिक व्यक्तायां वाचि । “संयोगस्यादी." २११८८ इति कस्य लुकि आचष्टे । " नवा परोक्षायाम्" ४४५ इति वा कशांग्रख्यांगोः गित्वात् फलवकर्तर्यात्मनेपदे आचक्शे, आचख्ये । फलवतोऽन्यत्र “शेषात्०" ३॥३॥१०० इति परस्मैपदे आचक्शौ आचख्यौ पक्षे आचचक्षे । अशिति " चक्षोवाचि० " ४४।४ इति क्शांगख्यांगो। अनुस्वारेचान्नेट् , आकुशास्यते । " शिट्याद्यस्य०॥ १३५९ इति वा द्वितीये आख्शास्यते आवयास्यते, आक्शा. स्थति आवशास्यति आख्यास्यति । " शास्त्यमुवक्ति" ३।४६० इति अडि आख्यत् । “य एच्चा." ५।१।२८ इति ये आख्येयम् । “ उपसर्गादातो." ५।३।११० इति डे आख्यः, प्रख्यः । “ तन्व्यधी०" ५।१।६४ इति णे ख्यायः । " समः ख्यः" ५।११७७ इति डे गोसङ्ख्यः । " व्यअनान्तस्था०" ४।२७१ इत्यत्र ख्यावर्जनात् क्तयोस्तस्य नत्वाभावे ख्यातः ख्यातवान् । " पुमोशिट्य०" ११३९ इत्यत्र ख्यागो वर्जनात् मोऽनुस्वरानुनासिकपूर्वरेफाभावे पुख्यानं, पुंख्याति: । वागर्थस्यैव क्शांगख्यांगो, तेन वर्जनार्थाद् ध्यणि संचक्ष्याः, दुर्जनाः वर्जनीया इत्यर्थः । भक्षणार्थादनटि चक्षणम् । चक्षिता । " स्वरात् " २।३।८५ इति कृतो नस्य [ णत्व संभवे ] " शुभ्नादिनाम् " २।३।९६ इति णत्वप्रतिषेधे प्रख्यानम् प्रख्यापनीयम् । उणादौ " तकश० " ( उ० १८७) इति अणे विचक्षणः । ज्ञानार्थत्वादत्र क्शांगख्यांगभावः । " चक्षः शिवा " ( उ० ९६९) इति असि 'चक्षाः नृचक्षाः ख्याश्च राक्षसः, अवचक्षाः । " चक्षेः शिद् वा" ( उ०.१००१) इति किति उसि चक्षुः, परिचक्षुः, अवचक्षु, अवसंचक्षुः, अवख्युः । बाहुलकात् द्वित्वे संचचक्षुः, विचख्युः ॥ __ अथोभयपदिनस्तत्राप्युदन्तौ ॥ '६५ ऊर्गुगक आच्छादने' । “वोर्णोः " ४।३।६० इति वा औत्वे प्रोर्णोति प्रोति । " न दिस्योः " ४।३।६१ इति औत्वप्रतिषेधे प्रौर्णोत् , प्रौर्णोः । परस्मैपदे सिचि " वोणुगः०" ४।३४६ इति वा वृद्धौ प्रौर्णावीत् , पक्षे प्रोणवीत् । "वोर्णोः" ४ ३।१९ इति इटो वा डित्वे प्रोणुवीत् । " गुरुनाम्यादेः०" ३।४।४८ इत्यत्र ऊर्णोः वर्जनात् परोक्षाया आमभावे प्रोणुनाव । गित्वात् फलवत्कर्तर्यात्मनेपदे १. चक्षः, ख्या:, उभे अपि रक्षो नाम्नी । ......नृचक्षाः राक्षस: । इति उणादिविवरणे । चक्षः इति प० र० प्रतयोः ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy