________________
६३ ] धातुपारायणे अदादयः (२)
[ १८७
आशीशसत् । अस्यापि हस्वप्रतिषेध इत्यन्ये, तन्मते आशशासत् । आशासिता, आशासितुम् । ऊदिचात् क्त्वि वेट , अत एव चोत्तरपदान्तस्यापि कृत्वो यबभावः । यपि हि स्ताद्यशिदभावादिटः प्राप्तिरेव नास्ति आशास्त्वा, आशासित्वा । यपमेव इच्छन्त्येके आशास्य । अनू दिदयमित्यन्ये । वेटत्वात् क्तयोर्नेट् , आशास्तः, आशास्तवान् । येषां नोदित् तन्मते वेट्त्वाभावाद् इटि आशासितः, आशासितवान् । " इडितो." ५।२।४४ इत्यने आशासनशीलः आशासनः । “क्रुत्संपदा० " ५।३।११४ इति विपि आशीः । “ श्रवादिभ्यः" ५।३।९२ इति क्तौ आशास्तिः । शासक् अनुशिष्टौ [ २।३७ ] शास्ति, शिष्यते, अशशासत् ॥
'६१ आसिक उपवेशने' । आस्ते । “कालाव" २२।२३ इति कर्मत्वे मासमास्तें । " अधेः शी० " २२।२० इति आधारस्य कर्मन्वे ग्राममध्यास्ते । " दयाया०" ३।४।४७ इति आमि आसाश्चक्रे । “गत्यर्थाकर्मक०" ५।१।११ इति वा कर्तरि क्ते आसितश्चैत्रः । पक्षे भावे आसितं चैत्रेण । साप्यात् " श्लिषशीङ" ५१९ इति वा कर्तरि क्ते उपासितो गुरुं शिष्यः, पक्षे कर्मणि उपासितो गुरुः शिष्येण । आसिता, आसितुम् । आनशि निपातनाद् आसीनः । "आस्यटि." ५।३।९७ इति क्यपि आस्या । “णिवेच्या०" ५।३३१११ इति अने आसना, उपासना । " वादिभ्यः" ५।३।९२ इति क्तौ उपास्तिः ॥ . '६२ कसुकि गतिशातनयोः' । उदित्वान्ने कंस्ते, चकंसे, कंसिता । यति चाकंस्यते । 'यङ्लुपि चाकंस्ति, चाकंसीति । अचि घनि वा कंसः । “क्तेटो०" ५।३।१०६ इति अः, कंसा ॥
६३ णिसुकि चुम्बने ' । उदिवाने, “पाठे० " २।३।९७ इति नत्वे च निस्ते । णोपदेशत्वाद् “अदुरुपसर्गा० " २।३७७ इति णत्वे प्रणिस्ते परिणिस्ते । " नाम्यन्तस्था" २।३१५ इत्यत्र शिटा नकारेण 'चान्तरेऽपि इति प्रत्येकं वाक्यसमाप्तेः इष्टत्वात् द्वयव्यवधाने षत्वाभावे निस्से । निनिसे, निसिता, निसितुम् । यडि नेनिस्यते । यङ्लुपि नेनिसीति, नेनिस्ति । "ऋवर्ण" ५।१।१७ इति ध्यणि निस्यम् । अचि पनि वा निसः । “ निंसनिक्षनिन्दः कृति वा" २२३८४ इति वा णत्वे प्रणिंसनीयम् , प्रनिसनीयम् , प्रणिसनम् , प्रनिसनम् । कृतोऽन्यत्राऽपि णत्वविकल्प इत्यन्ये, तन्मते प्रणिस्ते प्रनिस्ते, प्रणिसाते प्रनिसाते, प्रणिनिसे प्रनिनिसे ।।
१. यङ्लुपि चाकंसीति इति मु० ॥ २. वाऽन्त इति मु० ॥