________________
१८६
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ५८
अथ शान्तः सेट् च ॥ ' ५८ ईशिक् ऐश्वर्य' । " स्मृत्यर्थः " २।२।११ इति वा कर्मणः कर्मत्वे, " शेषे० " २।२।८१ इति षष्ठयां भुव ईष्टे, भुवमीष्टे । “ईशीड०" ४।४।८७ इति इटि ईशिषे, ईशिध्वे, ईशिष्व, ईशिध्वम् । स्वसाहचर्येण पञ्चमीचमो ग्रहणात् ह्यस्तनीध्वमीडभावे " यजसृज० " २।११८७ इति शस्य षत्वे, " तवर्गस्य." ११३६० इति धस्य ढत्वे, “ तृतीयस्तृतीय० ॥ १२३४९ इति षस्य डत्वे " स्वरादेस्तासु" ४।४।३१ इति वृद्धौ ऐड्वम् । “ गुरुनाम्यादेः०" ३४।४८ इति परोक्षाया आमि ईशाञ्चके । ईशिता, ईशितम् । “ नाम्युपान्त्य" ५।१।५४ इति के ईशः । आनशि ईशानः । “ स्थेश० " ५२।८१ इति वरे इष्टे इत्येवंशीलः ईश्वरः । स्त्रियामापि ईश्वरा । ईश्वरी इति तु " अश्नोतेरीच्चादेः" ( उ० ४४२ ) इति वरटि ड्याम् । क्ते ईशितः । "क्तेटो०" ५।३।१०६ इत्यः० ईशा । उणादौ " युयुजि०" (उ० २७७ ) इति किति आने ईशानः ।।
अथ सान्ताः पञ्च सेटश्च ॥ '५९ वसिक आच्छादने' । वस्ते पटम् । क्थे वस्यते । “ अनादेशादेः " ४।१।२४ इति एत्वस्य द्वित्वाभावस्य च “न शस०" ४१३० इति प्रतिषेधे ववसे, ववसाते, वसिरे । वसितः, वसितवान् । आनशि वसानः । करणेऽनटि . वसनम् । " इडितो." ५।२।४४ इत्यने वसनशीलो वसनः । वसित्वा । उणादौ " प्लुज्ञा० " (उ० ६४६) इति तौ वस्तिः मूत्राधारश्चर्मपुटः । “ट्" (उ० ४४६ ) इति टि वस्त्रम् । " वस्त्यगिभ्यां णित् " ( उ० ९७०) इति असि वासः । वसं निवासे [ ११९९९ ] वसति, वस्ता, उषितः, उपित्वा ।।
'६० आङ:- शासूकि इच्छायाम् ' । आङ इति आङपूर्व एवायं प्रयोज्यो न केवलो नाप्यन्योपसर्गपूर्व इत्येवमर्थम् । “क्वौ" ४।४।११९ इत्येव सिद्धे "आङ:०" ४।४।१२० इति वचनं यावेवाङपूर्वस्य शास्तेः आस इसिति नियमार्थम् । तेन " इसासः शासो०" ४।४।११८ इति इसमावे आशास्ते । क्ये आशास्यते । " शास्त्यमुवक्ति०" ३।४।६० इत्यत्र शास्तेः एव ग्रहणात् अङभावे आशाशिष्ट । " उपान्त्यस्या०" ४।२।३५ इत्यत्रापि शास्तः एव प्रतिषेधात् णौ . इस्वे १. अन्ये तु आपुर्वकत्वं प्रायिकं, तेन प्रशास्महे इत्यपि सिद्धमित्याहुः
(है. प्र. पृ. ६५७) ॥