________________
गणानां विभजनम् :
धातुपाठस्य विभजनपद्धतिः द्विप्रकारा पुरातनकालाद् विद्यते । पाणिन्यादिभिराचार्य: धावनां दशसु गणेषु विभजनं कृतम् , पाणिनेरपि प्राचीनेन काशकृत्स्नेन नवगणात्मको धातुपाठः प्रोक्तः । आचार्यहेमचन्द्रसूरयोऽपि नवगणात्मिकां धातुपाठपद्धति स्वीकृतवन्तः । एषां मते दशगणास्ते जुहोत्यादिधातूनां स्वतन्त्र गणं स्वीकुर्वन्ति; ये तु नव गणान् कथ. यन्ति ते जुहोत्यादिधातून् अदादिगण एष अन्तभूतान् मन्यन्ते । ग्रन्थस्य रचना पद्धतिः ___ अत्र ग्रन्थे, धातूनां पाठे प्रथमं परस्मैपदिनो धातवः, तत आत्मनेपदिनः, पश्चादुभयपदिनः । तत्रापि प्रथमं स्वरान्तधातवोऽनुक्रमेण, ततो व्यञ्जनान्ताः । यत्र यत्र तु क्रमभङ्गस्तत्र प्रायः प्रयोजनं निदर्शितम् ; यथा-अर्थसाम्याथम् , परम्परानुसरणार्थम् । क्वचित् वर्णक्रमो न भिद्यते यथा १ । ७४७ नाधृङ्नावत् । . धातूनां पाठानन्तरं धातोरर्थः, यत्र च अर्थविषयका स्पष्टताऽऽवश्यकी तत्र तत्र अर्थस्य पर्यायादिर्दत्तः । यत्र चकारात् अर्थस्यानुवृत्तिाद्या भवति तत्र साऽपि शब्दग्राहं दर्शिता यथा १ । ४९१ मिश ४९२ मश रोषे च, चकारात् शब्दे; शब्दने रोषक्रियायां चेत्यर्थः ।
अर्थ-पर्यायानन्तरम् वर्तमानकालतृतीय पुरुषैकवचनस्य रूपं दत्तमस्ति, ततोऽन्यानि अपि रूपाणि तत्तत्सम्बन्धिसिद्धहेमसूत्र निर्देशपूर्वकं निरूपितानि । पश्चात् सूत्रनिर्देशपूर्वक कृदन्तप्रत्ययः कृदन्ताः शब्दाः उणादिप्रत्ययैश्च उणायन्ताः शब्दाश्च साधिताः । क्वचिदेक एष शब्दः कृत्प्रत्ययेन उणादिप्रत्ययेन च साधितोऽस्ति; एतत्तु पञ्चमपरिशिष्टे शब्दसूचिदर्शनेन ज्ञातुं शक्यते । .. यत्र च अमुकः शब्दो न तस्माद् धातोः निष्पद्यते, अथ च वर्णसाम्यात् तथाविध. भ्रमस्य सम्भावना, तत्र तच्छब्दः अमुकस्माद पातोः अमुकेन सूत्रेण निष्पन्न इति स्पष्टीकरण कृतमस्ति, यथा - 'अनोकह इति तु अनितेः ओकहे' (पृ. १५६ । पं. ५)।
बहुत्र कारस्थले बकारः, सकारस्थले च शकारो मा भूत् इत्यर्थम् अयं दन्त्यौष्ठयादि. अयं दन्त्यादिः इति स्पष्टता कृता अस्ति ।
उपलब्धधातुविवरणानि :
विविधधातुपाठोपरि अद्ययावत् बढयष्टीका निर्मिताः सन्ति तासां मध्ये बहीनाम् अस्तित्वं तु यत्रतत्रागतोल्लेखादेव ज्ञायते, न तेषां ग्रन्थानामुपलब्धिः । भीमसेन देवनन्दी-चन्द्रगोम्यादीनां धातुपाठानामुपरी टीका न प्राप्यन्ते, कालकवलितास्ताः खलु ।
वोपदेवस्य ‘कविकल्पद्रुमस्योपरि दुर्गादासस्य धातुदीपिका टीका, मैत्रयरक्षितस्य धातुप्रदीपः', क्षीरस्वामिनः 'क्षीरतरङ्गिणी', आचार्यश्रीहेमचन्द्रसूरेः 'धातुपारायणम्', कृष्ण