________________
: १२ :
लीलाशुकमुनेः 'पुरुषकार: ' ( देवस्योपरि ), सायणस्य माधवीया धातुवृत्तिः, आ. गुणरत्नसूरे: ' क्रियारत्नसमुच्चयः', श्रीहर्षकुलगणिनः 'धातुचिन्तामणिः (कविकल्पद्रुम स्योपरि), सिद्धिचन्द्रगणिनः ' धातुमञ्जरी', साधुसुन्दरगणिनः 'धातुरत्नाकर', जिनदेवसरे: 'क्रियाकलाप:', हर्षकीर्तिरे: ' धातुतरङ्गिणी' इत्यादयः बहवः धातुविवरणा उपलभ्यन्ते । ( एषां आग्रन्थसप्तकं मुद्रितम्, अन्तिमाश्चत्वारः, अद्यावधि अमुद्रिता एव आस्ते, (विशेषार्थे द्रष्टव्यः 'जैनसाहित्यका बृहद् इतिहास' भा० ५) ।
अन्ये अपि बहवो वैयाकरणाः प्रक्रियाक्रमेण व्याकरणं कुर्वन्तो निजनिजग्रन्थेषु आख्यातविभागे धातुपाठस्य टीका निर्मितवन्तः । यथा विनयविजयमहोपाध्याया: हैमप्रकाशमहाव्याकरणे, भट्टोजीदीक्षितः सिद्धान्तकौमुद्याम् ।
अस्य ग्रन्थस्य प्रकाशनस्य आवश्यकता :
जानन्ति विद्वांसो यद् अतीवोपयोगि इदं ग्रन्थरत्नम् सिद्धहेमव्याकरणस्य अध्यापकानामध्येतॄणां च । अस्य ग्रन्यस्य सम्पादनं पुरा जर्मनदेशीय 'जोह किर्स्ट' महोदयैः कृतम् आसीत्, १८९९ विष्टान्दे च स प्रकाशितः अधुना स ग्रन्थ अतीवजीर्णो दुर्लभश्च जातः
वैक्रमीये २०२८ वर्षे जिनबिम्बप्रतिष्ठार्थं पूज्यपादाचार्य भगवन्तः श्रीमदूविजयोङ्कारaraर्या बेणपग्रामम् [ बनासकाठा जिलामध्ये ] गतवन्तः । तत्रस्थभाण्डागारे मुनिश्री - हर्षविजयसम्पादितानि धातुपारायणस्य १-११२ पृष्ठानि दृष्टानि चिन्तितं तैः ग्रन्थोऽसौ अतीव सुन्दरः प्रकाशनार्हश्च ततस्तेषामादेशेनास्माभिरस्य सम्पादनम् (पृ. ११३ तः) प्रारब्धम् ।
पश्चात् १-११२ पृष्ठानां 'फोटो-ओफसेट' पद्धत्या पुनर्मुद्रणे जाते अद्यचैष ग्रन्थो देव - गुरुकृपया पूर्णीभूतः ।
सम्पादन उपयुक्त हस्तलिखित प्रतयः
पा० संज्ञक प्रति: - श्रीसङ्घवीपाडा जैन ज्ञानभण्डार (पाटण) सत्यं तालपत्रीया प्रतिः सम्प्रति श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे पाटणनगरे वर्तते । तत्रस्थ सूच्यनुसारेण अस्याः कमाकम् १५९ वर्तते । Catalogue of the Palmleaf Mss in the Patan Bhandar, Gaekwad's Oriental Series, Baroda No. 76 इत्येदनुसारेण अस्याः क्रमाङ्कम् २५९ वर्तते, पत्राणि १-२६३ ।
तस्या अन्ते दत्ता पुष्पिका
" समर्थितं धातुपारायणमिति, संवत् १३०७ वर्षे चैत्र वदी १३ भोम श्रीवीसलदेवकल्याणविजयराज्ये वाम .... ... पञ्चकुलप्रतिप्रन्नो श्रीचन्द्रगच्छिय श्री चन्द्रप्रभसूरिशिष्यैः आचार्य श्री नेमिप्रभ...श्रीहेमचन्द्रधातुपारायणपुस्तिका लेखिता लिखिता च ।