________________
शब्दानुशासनस्य पश्चष्वप्यङ्गेषु शब्दानुशास्तुरेव कृतित्वमत्र सिद्धहेमशब्दानुशासन एव दरीदृश्यते । अन्यन्न ज्ञायते एकमपि व्याकरणस्य तन्त्रं यस्मिन् तस्य कत्रैव पश्चाप्यङ्गानि रचितानि ।
एके, अन्ये, केचित् :
इदं 'धातुपारायणम्', यथा पूर्वोक्तम् , धातुपाठस्योपरि रचितं स्वोपज्ञं विवरणम् , तेन अन्यतन्त्रेषु योऽनेकप्रकारो धातुपाठसम्बन्धी मतभेदो दृश्यते, स नात्र दृष्टिगोचरः ।
पाणिनीयतन्त्र एव त्रिप्रकारो धातुपाठो दरीदृश्यते- धातुप्रदीपादौ मैत्रेयादिभिः स्थीकृतः पाठः (पौर्वसंज्ञः) क्षीरतरङ्गिण्यां क्षीरस्वामिस्वीकृतपाठादतीवभिन्नो वर्तते । सायणेन माधवीया धातुवृत्तौ उपयुक्तः पाठस्ततोऽपि भिन्नः । भट्टोजीदीक्षितस्य सिद्धान्तकौमुदीगतो धातुपाठोऽपि न सर्वथा सायणेन सह संवादितां गच्छति ।
एवमन्यव्याकरणसम्बन्धिनि धातुपाठेऽपि परःशता मतभेदाः चिरकालात् प्रवर्तन्ते । हेमचन्द्रभगवद्भिः तेषामुल्लेखः यत्र तत्र स्थाने कुत्रचित् विवक्षितमतकारस्योल्लेखपूर्वकम् , बहुत्र तु नामग्राहं विना 'एके, अन्ये, केचित्' इत्युल्लेखेन सह प्रदर्शितः ।
अमीषामनिर्दिष्टप्रन्थकाराणां नामानि अन्वेष्टुं प्रवृत्तमस्माभिः, विविधधातुपाठादिव्याकरणविषयकग्रन्थावलोकनेन च यान्यभिधानानि लब्धानि तानि नवमपरिशिष्ट (पृ. ४७४ तः) तत्तद्ग्रन्थनिर्देशपूर्वकं दत्तानि ।
शब्दानुशासने धातुपाठस्य स्थानम् :... धातुपाठेन सह चत्वारोऽपि खिलपाठाः पूर्व शब्दानुशासनान्तःपातिन एव आसन् , मतिमान्धादिकारणेन पश्चात् तेषां पृथक्प्रकरणपद्धतिः प्रसिद्धेति युधिष्ठिरमीमांसकस्य मतम् (संस्कृत व्याकरण साहित्यका इतिहास भा. २, पृ. १ तः ४)। - श्रीहेमचन्द्राचार्येण भगवता अस्य धातुपारायणस्य प्रारम्भे गदितम्" श्रीहेमचन्द्रव्याकरणनिवेशितान् स्वकृतधातून् । आचार्य हेमचन्द्रो विवृणोत्यहँ नमस्कृत्य ।।"
एतत्पाठानुसारेण दृश्यते यत् तेः स्वकीयशब्दानुशासन एव धातुपाठस्य प्रवचनं कृतम् , किन्तु तत्वप्रकाशिकाख्यायां सिद्धहेमबृहवृत्तौ तत्तत्सूत्रव्याख्याने ( यथा-"दिवादेः श्यः" ३।४।७२ इत्येतस्य सूत्रस्य बृहदवृत्तौ पवमन्यत्र) दिवाधादिगणगतधातूनां केवलम् अर्थरहितं प्रवचनमुपलभ्यते, भ्वादिगणस्य तु सम्पूर्ण प्रवचनं न दृश्यते । सम्पूर्णसार्थधातुपाठः पृथक्प्रकरणत्वेनैवोपलभ्यते । सिद्धहेमशब्दानुशासनस्य लघुवृत्ति-बृहवृत्त्यादीनां हस्तलिखितप्रतिषु कुत्राऽप्यस्माभिः सार्थधातुपाठो न दृष्टः ।