________________
|| अर्हम् ॥
|| श्री शतेश्वरपार्श्वनाथाय नमः ||
|| श्रीमद् विजय भद्रसूरीश्वरेभ्यो नमः ||
पुरोवाक्
इह खलु विदितमेव विदुषां व्याकरणशास्त्रस्य महत्त्वम्, न तेन विना शास्त्रेष्वस्खलिता गतिः । शास्त्रे चाकुण्ठिता मतिः निःश्रेयसफलदानमुखा सम्पनीपद्यते । उक्तं चाऽन्यत्र'व्याकरणात् पदसिद्धिः, पदसिद्धेरर्थनिर्णयो भवति । अर्थात्तत्त्वज्ञानं तत्त्वज्ञानात् परं श्रेयः ।। "
el
अस्य ग्रन्थस्य प्रारम्भेऽप्यूचुः ग्रन्थकारा. कलिकाल सर्वज्ञाः श्री हेमचन्द्राचार्याः " इह तावत् पदपदार्थज्ञानद्वारोत्पन्नं हेयोपायदेयज्ञानं निःश्रेयसहेतुः इति प्रसिद्धम् । "
अतो मिःश्रेयसफलदानलब्धप्रतिष्ठस्य पञ्चाङ्गसंस्कृतव्याकरणस्यैकतमस्याङ्गस्य धातुपाठस्य विवरणात्मकमिदं ग्रन्थरत्नं- धातुपारायणम् - विदुषां करकमलेषु समर्पयन्तो वयं परमां मुदं लभामहे ।
व्याकरणस्य अङ्गानि :
इह खलु संस्कृतव्याकरणशास्त्रे पञ्च अङ्गानि । इमानि च तानि सूत्रपाठः धातुपाठः, गणपाठः, उणादिपाठः, लिङ्गानुशासनं च । अत्र सूत्रपाठी मुख्यः, शेषास्तस्योपकारिणः; ते च 'खिल' शब्देन व्यवह्रियन्ते ।
अस्ति संस्कृतव्याकरणवाङ्मये धातुपाठस्य विशिष्टं स्थानम् । शब्दानुशासनप्रवचने अनिवार्यमस्य प्रवचनम् । अत एव पूज्यपाद - देवनन्दी - कातन्त्र-चन्द्र- शाकटायनादयो वैयाकरणा स्वं स्वं धातुपाठं प्रोचुः ।
पाणिनेरपि प्राचीनस्य आपिशलेः वैयाकरणस्य बहवो धातवो यत्र तत्र ग्रन्थेषूपलभ्यन्ते ( सकारमात्रमस्ति धातुमापिशलिराचार्यः प्रतिजानीते, [ सिद्ध हेमबृहन्न्यास, १/१/२२, पृ. २२६ ]) ततोऽपि प्राक्तनस्य काशकृत्स्नस्य सम्पूर्णो धातुपाठ उपलभ्यते ।
श्री हेमचन्द्राचार्यैरपि स्वकीयधातुपाठस्य प्रवचनं कृतम् इदं ' धातुपारायणम्' तस्यैव धातुपाठस्योपरि रचितं स्वोपज्ञं विवरणम् । न केवलं धातुपाठः, अपि तु शब्दानुशासनस्य पञ्चाऽप्यङ्गानि विरचितानि तैः ।