SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १८२] आचार्यश्रीहेमचन्द्रविरचिते [ धा० ४६७।१।१६८ इति इनि अधीती शास्त्रे, अत्र “व्याप्ये तेनः" २।२।९९ इति द्वितीयापवादः सप्तमी । मनि अध्येमा । विचि अध्यैः । विपि अधीत् । "धारीोऽकृच्छेतृश" ५।२।२४ अधीयन् सिद्धान्तम् । अत्र " 'तन्नुदन्ता." २।२।९० इति प्रतिषेधात् "कर्मणि कृतः" २२६८३ इति षष्ठी नास्ति । "युवर्ण० " ५।३।२८ इत्यलपवादे " इडोऽपादाने तु टिद् वा" ५।३।१९ इति पजि उपाध्यायः, स्त्री चेत् उपाध्याया। टिव पक्षे " अणयेजे०" ४।२० इति ज्याम् उपाध्यायी । “ पुनाम्नि" ५३।१३० घाऽपवादे "न्यायावाया." ५।३।१३४ इति पनि अधीयते अस्मिन् इति अध्यायः ॥ ___४७ शीफू स्वप्ने' । "शीङ ए: शिति" ४।३।१०४ शेते शयाते । " शीडो रत्" ४।२।११५ इत्यन्तो रति शेरते । “ अधेः शी ” २।२।२० इत्याधारस्य कर्मत्वे ग्राममधिशेते । " क्ङिति यि शय् " ४।३।१०५ शय्यते अधिशय्य गतः । यङि शाशय्यते । यङलुपि शेशेति, शेशयीति । शिश्ये, शयिता, शयितुम् । " य एच्चा० " ५।१।२८ इति ये शेयम् । अचि शयः । “पार्थादिभ्यः शीङः" ५।१११३५ इति अः, पार्श्वशयः । " उर्धादिभ्यः कर्तुः " ५।१।१३६ उर्ध्वशयः, उत्तानशयः । “ आधारात् " ५।१।१३७ खशयः, गिरिशयः । गिरिश इति त लोमादित्वान्मत्वर्थीये शे। "व्रता०" ५।१११५७ इति णिनि स्थण्डिलशायी । " श्लिषशी" ५।११९ इति साप्यादपि वा कर्तरि ते " न डीशीङ्" ४।३।२७ इति कित्त्वप्रतिषेधाद् गुणे उपशयितो गुरुं शिष्यः, पक्षे कर्मणि क्ते उपशयितो गुरुः शिष्येण । “ शीश्रद्धा०" ५।२।३७ इत्यालो शयनशीलः शयालुः । " युवर्ण० " ५।३।२८ इति अलि संशयः " व्युपाच्छीङः" ५।३।७७ इति घनि तव विशायः, मम विशायः; तव राजोपशायः, मम राजोपशायः । " समज०" ५३९९ इति क्यपि शेरते अस्यामिति शय्या । आधारे अनटि शयनम् । शवानां शयनम् स्मशानमिति पृषोदरादिः। उणादौ "शीभी." ( उ० ७१ ) इति आनके शयानकः अजगरः शैलश्च । शिखा शाखा इति तु " श्यतेरिच वा" (उ० ८५) इति खे श्यतेः । " शीरी०" ( उ० २०१) इति किति ते शीतम् । “दपृभृ०" (उ० २०७) इत्यते शयतः निद्रालु: चन्द्रश्च । “ न्युद्भ्यां शीङः " ( उ० २२८ ) इति किति थे निशेरते अस्मिन् इति निशीथः अर्धरात्रः रात्रिः प्रदोषश्च । उच्छीथः स्वप्नः टिटिभश्च । “भृशीशपि०" १. तृनु इति मु० ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy