________________
४६ ] धातुपारायणे अदादयः (२)
बोभोति; पापचीति, पापक्ति; वावदीति, वावत्ति; पास्पर्धीति, पास्पर्धि ।
" क्रियाव्यतिहारे" ३।३।२३ इत्यात्मनेपदे "शीडा रत्" ४।२।११५ इत्यत्र कित् निर्देशेन यङ्लुबन्तस्याऽग्रहणाद् अन्तो रदाऽऽदेशाऽभावे " अनतो." ४।२।११४ इत्यति “ योऽनेकस्वरस्य " २२११५६ इति यत्वे च व्यतिशेश्यते । “शीङ ए." ४।३।१०४ इत्यत्रापि ङित् निर्देशात् “ 'तिवा शवा०" [ न्याय० १८] इति यङ्लुबन्तस्याऽग्रहणम् । तेन एर्नास्ति । यङ्लुबन्तमात्मनेपदे न प्रयुज्यत इत्येके । भावकर्मणोः आत्मनेपदे न प्रयुज्यत इत्यन्ये । यङ्लुबन्तस्य चर्करीतं चर्करीतिश्च पूर्वेषां संज्ञा । यङ्लुबन्तं छन्दसि एवेति केचित् ॥
अथाऽऽत्मनेपदिनः ॥ - ४६ इंक अध्ययने' । इडिकोः अधिना अवश्यंभावी योगः । 'यदाह " कश्चित्तमनुवर्तते" । ङित्वाद् “ इङितः०" ३३।२२ इत्यात्मनेपदे अधीते, मधीयाते, अधीयते । “ गाः परोक्षायाम् " ४।४।२६ अधिजगे । अत्र 'परोक्षाविषये गाः, तेन प्राक् तु स्वरे स्वरविधेः इति प्रागेव द्वित्वं न भवति । " णौ सन्डे वा" ४।४।२७ अधिजिगापयिषति, अध्यजीगपत् , पक्षे " णौ क्रीजीडः" ४।२।१० इत्यात्वे, “अतिरी०" ४।२।२१ इति पौ च अध्यापिपयिषति, अध्यापिपत् । “ वाद्यतनीक्रियातिपत्योर्गीङ्" ४।४।२८ अध्यगीष्ट, अध्यगीष्यत; पक्षे " स्वरादेस्तासु" ४।४।३१ इति वृद्धौ अध्यैष्ट, अध्यैष्यत । “ "सनीङश्च" ४।४।२५ इति गमौ " स्वरहन० " ४।१।१०४ इति दीर्घ च अधिजिगांसते । अनुस्वारेचान्नेट , अध्येता, अध्येतुम् । “गमोऽनात्मने" ४।४।५१ इति सादेरादिरिद, अधिजिगमिषितव्यम् । “य एञ्चातः" ५।१।२८ इति ये अध्येयम् । णके अध्यायकः । ण्यन्तात् णके अध्यापकः । “कर्मजा तृचा च" ३११८३ इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः साध्वध्यापकः । क्ते अधीतम् । “इष्टादेः"
१. तिथा १, शवा २, ऽनुवन्धेन ३, निर्दिष्टं यद्गणेन ४ च । एकस्वरनिमित्तं ५ च पञ्चैतानि न यङ्लुपि ॥ (न्याय० १८) ।
२. तु. यदाहुः "धात्वर्थ बाधते कश्चित् , कश्चित्तमनुवर्तते । तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते"। ( है. प्र. पृ. ६५३)। अन्यत्र तु इत्थमुत्तरार्ध दृश्यते, "विशिनष्टि तमेवार्थमुपर्गगतिस्त्रधा । (क्षी. त. पृ. १७६ टि. )॥
३. परोक्षायां विं इति मु०॥ ४. सनीश्व इति मु० ॥