________________
१८३
४९ ] धातुपारायणे अदादयः (२) (उ० २३२ ) इति अथे शयथः अजगरः । “ जीणशीदी." ( उ० २६१) इति किति ने शीनः पीलु: । " शीङः सन्वत्" (उ० २६७) इति डिति ने शिश्नम् मेदम् । “ भाषा०" (उ० २९६) इति पे शेपः पुच्छम् । “रीशीभ्यां फः" ( उ० ३१४) शेफः मेढ़म् । “ शुकशीमूभ्यः कित्" ( उ० ४६३ ) इति ले शीलम् । “ शीङस्तलपालवालणवलण्वलाः " ( उ० ५०१) शीतलम् अनुष्णम् , शेपालम् , जपादित्वाद् वत्वे शेवालम् , शैवालम् , शैवलम् , शेवलं च जलमलः । " शीङापो हुस्वश्च वा" ( उ० ५०६) इति वे शिवम् भद्रम् , शिवा पथ्या, शेवम् धनं सुखं च; शेवः अजगरः, शेवा 'प्रचला निद्राविशेषः । “भृमृत." ( उ० ७१६) इति उः, शयुः अजगरः । " शीडो धुक्" ( उ० ७८४ ) शीधुः । "शीङः फस् च " ( उ० ९८२) इति फसि पसि च शेफः शेपश्च मेदम् । शेखरशिखरौ तु " शाखेरिदेतौ चातः " ( उ० ४०० ) इत्यरे शाखेः ॥
दीधील दीप्तिदेवनयोः । वेवीङ् वीसमानार्थः एतावपि केचित् पठन्ति, छान्दसत्वात्तु उपेक्षितौ ॥
___ ४८ हुनुकू अपनयने' । अपनयनम् अपलापः । “मनयवल." १।३।१५ इति मः अनुनासिकाउनुस्वारयोः किन्हुनुते, कि हुनुते । "श्लाघहुनुस्था०" २।२६० इति. चतुर्थी चैत्राय निनुते । जुनुवे । यङि जोहनूयते । अनुस्वारेचान्नेट, होता, ह्रोतव्यम् । “य ऐच्चा० " ५।१।२८ इति ये हव्यम् । " उवर्णात्" इति ध्यणि हाव्यम् अवश्यम् । “युवर्ण०" ५।३।२८ इत्यलि अपहवः ॥
अतः परमूदन्तः सेट् च ॥ '४९ घूडौक् प्राणिगर्भविमोचने' । “षः सो० " २।३।९८ इति सत्वे सूते, सुवाते, 'सुवते । “ सूतेः पञ्चम्याम् " ४।३।१३ इति गुणाभावे " धातोरिवर्णो." २१११५० इत्युवि सुवै, सुवावहै, सुवामहै । षोपदेशन्वात् “नाम्यन्तस्था०" २।३।१५ इति षत्वे सुषुवे । क्ये सूयते । णौ सनि सुषावयिषति । औदित्वात् वेटि सोता, सविता । किति " उवर्णात् " ४।४।५८ इति नेट् , सूनः, सूनवान् । युवती " भोजस्तयोः०" ०४८१ इत्यन्तस्य ध्ये सूत्या । युवतेरन्यत्र " कुत्सिता." ७३।३३ इति कपि " द्वथेष०" २।४।१०९ इत्यतो वेत्वे सूतिका, सूतका । तो
१. प्रबला इति मु.॥ २. जुनुते इति मु० ॥