SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ४३ ] धातुपारायणे अदादयः (२) "करणेभ्यः " ५।४।६४ उपलपातं हन्ति । " हिंसार्थादे०" ५।४।७४ इति णमि दण्डोपघातं गाः कालयति । " तृतीयोक्तं वा" ३३११५० इति वा समासः पक्षे दण्डेनोपघातम् । णौ करणेऽनटि परिघातनः, परिघः । उणादौ " कीचकपेचक०" ( उ० ३३) इत्यके निपातनाद् वधक: हन्ता, व्याधिश्च; वधकं पद्मबीजम् । बाहुलकादन्यत्रापि वधाऽऽदेशः । लिहायचि वृत्रवधः शक्रः । वधिता, वध्यः, वधनम् । “सीमन्त" ( उ० २२२) इत्यन्ते निपातनात् हेमन्तः । "नीनगमि." ( उ० २२७ ) इति किति थे हथः पन्थाः कालश्च । " हनेर्पतजघौ च" (उ० २७२) इति अने घतनः पापः, जघनं श्रोणिः । हिमम् हेमम् इति तु "क्षुहिन्यां वा" ( उ० ३४१) इति वा किति मे हिनोतेः । “कोरचोर०" ( उ० ४३४ ) इति ओरे निपातनात् घोरः भीमः । " मावावद्य० " ( उ० ५६४) इति से हंसः । " कमिवमि० " ( उ० ६१८) इति णिदिः, घातिः प्रहरणम् । बाहुलकाद् घातादेशाभावे हानिः उच्छित्तिः, तत एव वा 'णिवे हनिः आयुधम् । " हन्तेरंड च" ( उ० ६५४) इति अतो अंहतिः व्याधिः, रथश्च । “कृहने:०" (उ० ७९१) इति तुकि हतुः हिमम् , नुकि बाहुलकात् नलुकि च हनुः कपोलाऽधः । अनेहा इति तु " नत्र ईहेरेहेधौ च" ( उ० ९७५) इत्यसि ॥ अथ शान्तः सेट् च ॥ _ '४३ वशक कान्तौ' । कान्तिः इच्छा । “यजसृज." २०११८७ इति पत्वे वष्टिः । " वशेरयडि" ४११८३ इति स्वृति उष्टः, उशन्ति । शतरि उशन् , उशती । ऊशतुः, ऊशुः । " यजादिवश० " ४।१।७२ इति पूर्वस्य वृति उवाश । या वर्जनाद् वृदभावे पावश्यते । क्ये उश्यते । वशिता । ते उशितः । णौ नन्द्याद्यने वाशनः । “ युवर्ण०" ५।३।२८ इत्यलि वशः । “ साक्षादादि०" ३।१।१४ इति वा गतित्वे वशेकृत्य वशे कृत्वा गतः; गणनिर्देशात् सप्तम्यलुप् । उणादौ " घसिवशि० " ( उ० ४१९) इति किति ईरे उशीरं वरणीमूलम् । "वशेः कित्" (उ० ८७६ ) इति इजि उशिक कान्तः, उशीरं च । “वष्टे: कनस् " ( उ० ९८५) उशनाः शुक्रः । वशिघसी छान्दसौ इत्यन्ये । भाषायामपि प्रयोगदर्शनादत्रोपात्तौ ॥ १. अणिदिकारपक्षे इत्यर्थः ॥ ..
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy