________________
४२ ] धातुपारायणे अदादयः (२)
अथ नान्तोऽनिट् च ॥ * ४२ हनक हिंसागत्योः' । हन्ति । " नेमादा०" २३७९ इति नर्णत्वे प्रणिहन्ति चौरस्य । अत्र " निप्रेभ्यो" २२।१५ इति वा कर्मणः कर्मत्वे " शेषे " २२।८१ इति षष्ठी । " यमिरमि०" ४।२।५५ इति नस्य लुकि हतः । “गमहन०" ४।४।८३ इत्युपान्त्यलुकि " हनो हो." २०११११२ इति नि नन्ति । " हनः" २।३८२ इति णत्वे प्रहण्यते । “वमि वा" २।३।८३ इति वा णत्वे प्रहण्वः, प्रहन्वः; प्रहमि, प्रहन्मि । “ हनो घि" २।३९४ इति णत्वप्रतिषेधे प्रघ्नन्ति । “आडो यमहनः०" ३३८६ इति आत्मनेपदे कर्मण्यसति आहते । स्वाङ्ग कर्मणि आहते शिरः । “नेह आहन्ति शिरः शत्रोः" । "क्रियाव्यतिहारे०" ३।३।२३ इत्यत्र गतिहिंसार्थवर्जनात् " शेषात् परस्मै" ३।३।१०० इति परस्मैपदे व्यतिघ्नन्ति । " जिणवि०" ४।३।१०१ इति पनि जघान, जघ्नतुः, जघ्नुः । थवि " सृजिदृशि०" ४४७८ इति वेटि “ अड़े हि०" ४।११३४ इति हस्य घत्वे जघनिथ, जघन्थ । “गमहन." ४।४८३ इति क्वसौ वेटि जनिवान् , जघन्वान् । अनुस्वारेत्वान्नेट् , हन्ता, हतः । " हनृतः स्यस्य" ४।४४९ इति इटि हनिष्यति । " शाशस्०" ४।२।८४ इति ह्यन्तस्य, जहि शत्रून् । यङ्लुप्यपि जहि । यङ्लुपि नेच्छन्त्येके, तन्मते "यमिरमि०" ४।२।५५ इति नलुकि जक्चहि । ये तु " तिवाशवा०" [न्याय० १८] इति न्यायस्य सूत्रगणनिर्दिष्टेऽपि प्रवृत्यभ्युपगमात् “ यमिरमि० " ४।२।५५ इति लुगभावं, विङति " अहन्पश्चम०" ४।११०७ इति हन्तेरपि दीर्घत्वं चेच्छन्ति तेषां मते जङ्घांहि । भावकमणोः " स्वरग्रह" ३।४।६९ इति वा जिटि घानिष्यते त्वया, पक्षे हनिष्यते । “हनो वध०" ४।४।२१ इति वधे वध्यात् । हन्यात् इति तु सप्तम्यां भिवर्जनात् जिटि वधाऽभावे घानिषीष्ट । “ अद्यतन्यां वा०" ४।४।२२ इति वधे अनुस्वारेन्वेऽप्यनेकस्वरत्वात् इटि " स्वरस्य परे०" ७१४।११० इत्यल्लुकः स्थानित्वात् " व्यञ्जनादे० " ४।३।४७ इति वा वृद्धयभावे अवधीत् । वा त्वात्मने आवधीष्ट । पक्षे “ हनः सिच्" ४।३।३८ इति सिचः कित्वात् “ यमिरमि०" ४।२।५५ इति नो लुकि आहत । सनि " स्वरहन " ४१११०४ इति दीर्धे जिघांसति । यङि " हनो नीर्वधे" ४।३।९९ जेनीयते । वधादन्यत्र जङ्घन्यते । "चराचर०" ४।१।१३ इत्यपि वा निपातनात् , घनाघनः पक्षे हनः " णिति घात् " ४३१०० पातयति । " हत्याभूयं भावे" ५११३६ इति