________________
१७६ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ४१इति कर्मण्यसति आत्मनेपदे संवित्ते संविदाते । “वेत्तेर्नवा" ४।२।११६ इत्यन्तो वा रति संविद्रते, पक्षे " अनतोन्तो० " ४।२।११४ इत्यति संविदते । सति आप्ये " शेषात् " ३३१०० इति परस्मैपदे संवेत्ति शास्त्रम् । “सिविदो०" ४।३।९२ इति शिदनः पुसि अविदुः । "वेत्तेः कित् " ३।४।५१ इति परोक्षाया वा आमि विदाञ्चकार, विवेद " पञ्चम्याः कृगः" ३।४।५२ इति पञ्चम्या वा आमि कुग एव तदन्तस्याऽनुप्रयोगे च विदाङ्करोतु, विदाङ्करवाणि, कित्त्वात् न गुणः; पक्षे वेत्तु, वेदानि । " व्यजनाद् दे." ४।३।७८ इति दे कि सः अवेत् । "सेः सद्धा" ४।३।७९ इति सेलुकि दो वा रुत्वे च अवेः त्वम् , अवेत् त्वम् । वेदिता, विदितः, विदितवान् । “वो व्यञ्जनादे०" ४।३।२५ इति विकल्पाऽपवादे "रुदविद० " ४।३।३२ इति क्त्वासनोः किल्वे विदित्वा, विविदिषति । " नाम्धुपान्त्य०" ५।११५४ इति के विदः । णौ " साहिसाति०" ५।१५९ इति शे वेदयः । विपि वित् , वेदवित् । “तत्र क्वसु०" ५।२।२ इति क्वसौ विविद्वान् । " स्क्रसृवृ०" ४।४।८१ इति इट: “घसेकस्वरा०" ४।४।८२ इति नियमादत्राऽभावः । “गमहन०" ४।४।८३ इति वेत्तेः अपि वेट इत्येके, तन्मते विविदिवान् , विविद्वान् । “ वा वेत्तेः क्वसुः" ५।२।२२ विद्वान् , विदन् । " वेत्तिच्छिद०" ५।२।७५ इति किति घुरे वेदनशीलो विदुरः । “विन्द्विच्छू" ५।२।३४ इति निपातनाद् उः, वेदनशीलो विन्दु । घनि वेदः । स्त्रियां भावाकोंः नाम्नि " समज०" ५।३।९९ इति क्यपि विद्या । “णिवेच्या०" ५।३।१११ इत्यने वेदना । करणाधारे पुनाम्नि " व्यञ्जनाद्" ५।३।१३२ इति घनि वेदः । " विदगभ्यः" ५४५४ इति णमि अतिथिवेदं भोजयति । उणादौ " विदिभिदि० " ( उ० २३४ ) इति कित्यथे विदथो ज्ञानी । “विदिवृत्तेर्वा" ( उ० ६१० ) इति वा किद् इ., विदिः शिल्पी, वेदिः इज्यादिस्थानम् । " अस् " ( उ० ९५२ ) इत्यसि नखादित्वात् अदभावे नवेदाः, सर्ववेदाः, सर्वस्वदक्षिणक्रतुयाजी । यस्तु ओष्ठयादिः जलकणवाची 'बिन्दुः स विन्देः " भृमृत." ( उ० ७१६ ) इत्यो । विदिच सत्तायाम् [३३११५] विद्यते । विद्लन्ती लाभे [५।८ ] विन्दते, विन्दति । विदिप विचारणे [ ६.२५] विन्ते । विदिण चेतनाख्याननिवासेषु [ ९।२४२ ] वेदयते ॥
१. उणादि विवरणे विदु अवयवे, विन्दुः विप्लुट् । अ. चि. टीकायां 'बिदु अवयवे बिन्दति, बिन्दुः, पुंलिङ्गः, "भृमृत" ( उणा० ७१६) इत्युः [ ॥१५५ ] धातु पाठे १।३१० विदु अवयवे इत्यस्ति ॥