________________
१७५
४१] धातुपारायणे अदादयः (२) " गोचरसंचर०" ५।३।१३१ इति निपातनाद् घे वक्तीति वकः, क्ते उक्तम् । लिहायचि श्लोकवचः । उणादौ "नीनूरमि०" ( उ० २२७) इति किति थे उक्थम् साम । “ट्" (उ० ४४६) इति टि वक्त्रम् । "ककस्थूराद् वचः क च" ( उ० ७२८ ) इत्युणि कुकवाकु: 'कुक्कुटः, स्थूरवाकुः उच्चध्वनिः । “अस्" ( उ० ९५२ ) इत्यसि वचः । वचण भाषणे [९।३८७ ] वाचयति, युजादित्वाद् वा णिचि पक्षे वचति ॥
. अथ जान्तः ॥ '३९ जौक् शुद्धौ' । “ मृजोऽस्य०" ४।३।४२ इति वृद्धौ “यजसृज०" २११८७ इति षत्वे मार्टि, मृष्टः । “ ऋतः स्वरे वा" ४।३४३ इति वा वृद्धौ परिमार्जन्ति, परिमृजन्ति, ममार्जतुः, ममृजतुः, ममार्जुः, ममृजुः । औदिचात् वेट् , मार्डी, मार्जिता । वेट्त्वात् क्तयोनेंट् , मृष्टः, मृष्टवान् । “कृषि०" ५।११४२ इति वा क्यपि परिमृज्यः, पक्षे ध्यणि "तेऽनिट." ४३१११११ इति गत्वे परिमार्यः । “शोकापनुद० " ५।१३१४३ इति निपातनात् के तुन्दपरिमृजः अलसः, अन्यत्र कर्मणोऽणि तुन्दपरिमार्जः । घनि मार्गः । भिदायङि मृजा शुद्धिः, अन्यत्र स्त्रियां तो मृष्टिः । उणादौ " अग्यङ्गि० " ( उ० ४०५) इति आरे मार्जारः, लत्वे मार्जालः । “ मृजिखन्या० " ( उ० ४७२) इति डित्यले मलः । मृजौण शौचालङ्कारयोः [९।३९० ] युजादित्वात् वा णिचि मार्जयति । " णिवेच्या० " ५।३।१११ इत्यने मार्जना, ते मार्जितः । मर्जिता रसाला इति रूढेः, पक्षे मार्जति ॥
अथ तान्तः ॥ ... ४० सस्तुक् स्वप्ने' । उदित्वान्ने " धुटो धुटि स्वे वा” ११३१४८ इति तो लुकि च संस्ति, संस्तः, संस्तन्ति, संस्तिता ॥
अथ दान्तः ॥ '४१ विदक ज्ञाने' । “तिवां णव०" ४।२।११७ इति वा णवाद्यादेशे वेद, विदतुः, विदुः, पक्षे वेत्ति, वित्तः, विदन्ति । " समो गमृच्छि० " ३३८४
१. “ हुयामा०" ( उ० ४५१) इति त्रप्रत्ययेऽपि वक्त्रम् भवति ॥ २. कुकुटः इति मु०॥
३. मार्जिता इति मु० । " मार्जिता रसाला मर्जितेति रूढेः" इति चुरादौ [ ३९० ] अत्रैव वक्ष्यते ॥