________________
१७४
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३६
३।४।४६ इति परोक्षाया आमि चकासाञ्चकार । सनि चिचकासिषति । चकासिता, चकासितुम् । ऋदित्वात् डे न इस्वः, अचचकासत् ।।
'३७ शाक् अनुशिष्टौ' । अनुशिष्टिः नियोगः । शास्ति । " इसासः शासोङ व्यञ्जने " ४।४।११८ " नाम्यन्तस्थाः०" २।३।१५ इति षत्वे च शिष्टः । "शास्त्यमू०" ३।४।६० इत्यङि अशिषत् । “द्वयुक्तजक्ष०" ४।२।९३ इति शिदनः पुसि अशासुः । अन्तो नो लुकि शासति । शतरि शासत् , शासतौ । " व्यञ्जनाद् देः०" ४।३।७८ इति देलुकि सो दत्वे च, सः अन्वशात् । " सेः स-द्-धां०" ४।३।७९ इति सेलुकि सो रुत्वे च अन्वशाः त्वम् , अन्वशात् त्वम् । " शासस्०" ४।२।८४ इति ह्यन्तस्य शाधौ, शाधि, अनुशाधि । शासिता । अदित्वात् क्त्वि वेट , शिष्ट्वा, शासित्वा । वेट्त्वात् क्तयोनेंट , शिष्टः , शिष्टवान् । क्विपि मित्रशीः । तो शिष्टिः । “इकिश्तिव्० " ५।३।१३८ इति श्तिवि शास्तिः । " उपान्त्यस्या० " ४।२।३५ इत्यत्र शासेर्वर्जनात् डे हस्वाभावे अशशासत् । " दृवृग्० " ५।११४० इति क्यपि शिष्यः । “शासूयुधि०" ५।३।१४१ इत्यने दुःशासनः, सुशासनः । उणादौ "शासिशंसि०" (उ० ८५७) इति तः, शास्ता बुद्धः; प्रशास्ता ऋत्विक । “ तृस्वसृ० " १।४।३८ इत्यारि प्रशास्ता । आङः शासूकि इच्छायाम् [ २१६० ] आशास्ते, आशास्यते, आशीशसत् , आशीः ।। रुजक्षपश्चके समाप्य प्रकृतो वर्णक्रमोऽनुत्रियते ॥
अथ चान्तः॥ ___ '३८ वचंक भाषणे । वक्ति, वक्तः, वचन्ति । अन्तौ बचेः प्रयोग नेच्छन्त्येके । " यजादिवश्० " ४।१।७२ इति पूर्वस्य रवृति उवाच । “यजादिवचेः० " ४।१७९ इति रवृति ऊचतुः ऊचुः । क्य उच्यते । “शास्त्यमू०" ३४६० इत्यङि " श्वयत्य ०" ४।३।१०३ इति वोचाऽऽदेशे अवोचत् । अनुस्वारेचान्नेट, वक्ता, वक्तुम् । " प्रवचनीया०" ५।११८ इति वा कर्तयनीये प्रवचनीयो गुरुधर्मस्य, पक्षे प्रवचनीयो धर्मो गुरूणा । “ ऋवर्ण० " ५।१।१७ इति ध्यणि प्रवाच्यः ग्रन्थविशेषः, अत्र " त्यजयज०" ४।१।११८ इति कत्वाऽभाव: । "वचोऽशब्दनाम्नि" ४।१।११९ कत्वाभावे वाच्यम् आह । शब्दनाम्नि तु "क्तेऽनिट०" ४।१।१११ इति कत्वे वाक्यम् । “वेयिवद० " ५।२।३ इति भूतमात्रे निपातनाद् वा काने अनूचानः, पक्षे अन्ववोचत् । " भावाकोंः " ५।३।१८ घजि अनुवाकः, वाकः । " दिद्युद्-ददृद्" ५।२।८३ इति विपि निपातनात् वचनशीलो वाक् ।