________________
३६ ] धातुपारायणे अदादयः (२)
१७३ ददिद्राश्चकार । " आतो णव०" ४।२।१२० इत्यत्र ओकारेणैव पपौ इत्यादिसिद्धौ
औकारविधानं दरिद्रातर्णवः आमादेशानित्यत्वार्थम् , ददरिद्रौ । क्वसौ दरिद्राञ्चकृवान् । शिवस्तु णयोऽन्यस्य अपि आमादेशमनित्यमिच्छति, ददरिद्रवान् । “युक्तजक्ष०" ४।२।९३ इति शिदनः पुसि " इडेत्" ४।३।९४ इत्याल्लुकि अदरिद्रुः । णौ दरिद्रयति । णौ डे अददरिद्रत् । णो विषये आल्लुकं नेच्छन्त्यन्ये, दरिद्रापयति । डे " उपान्त्यस्या०" ४।२।३५ इति हस्वत्वे अददरिद्रपत् । नन्वत्र सन्वद्भावात् पूर्वम्यत्वं प्राप्नोति; नैवम् , 'येन नाव्यवधानं तेन व्यवहितेऽपि स्यात् ' [ न्याय० १३] इत्येकवर्णव्यवहिते लघौ लघोः परेण चैकवर्णेन व्यवहिते उपरे णौ सन्वभावो भवति यथा अपीपचत् इत्यादौ । अवीव्रजत इत्यादौ तु “स्मृदृत्वर०" ४।१६५ इत्यत्वविधानाद् अनेकव्यानव्यवहितेऽपि लघुनि इष्यते । इह तु लघोरव्यवधानेऽपि लघोः परेण वर्णसमुदायेन र्व्यवधेति न भवति । दरिद्रिता, दरिदितुम् । वेट्त्वेऽप्यनेकस्वरत्वात् क्तयोरिट, दरिद्रित: दरिद्रितवान् । अचि घजि वा दरिद्रः । दः इति तु “ तृदृभ्यां दुः" ( उ० ८४६) इति दुणातेः ॥ - '३५ जागृक् निद्राक्षये' । जागर्ति, जागृतः । अन्तो नो लुकि जाग्रति । शतरि जाग्रत् , जाग्रतौ । “ द्वयुक्तजक्ष०" ४।२।९३ इति शिदनः पुसि “पुस्पौ" ४।३।३ इति गुणे अजागरु: । जजागार । “जागुः किति" ४३६ इति गुणे जजागरतुः, जजागरुः । पक्षे " जाग्रुष०" ३४४९ इति परोक्षाया आमि जागराञ्चक्रतुः, जागराञ्चकुः । “सिचि परस्मै० " ४३।४४ इति वृद्धः " नश्विजागृ०" ४।३।४९ इति प्रतिषेधे अजागरी । “जागुर्जिणवि" ४।३५२ इति वृद्धः जिणवोरेव नियमात् , " नामिनो०" ४३५१ इति वृद्धयभावे गौ गुणे जागरयति, जागरिता, जागरितुम् । क्तयोः जागरितः जागस्तिवान् । "जागुः" ५२०४८ इत्यूके जागरणशिलो जागरूकः । स्त्रियां क्त्यपवादौ "जागुरश्च" ५।३।१०४ इति अ-यौ जागरा, जागर्या । उणादौ " जशस्त० " ( उ० ७०५) इति ङिति वो जागृविः अग्निः ।।
६६
'३६ चकासृक् दीप्तौ' । चकास्ति, चकास्त: । अन्तो नो लुकि चकासति शतरि चकासत् , चकासतौ । " द्वयक्तजक्ष०” ४।२।९३ इति शिदनः पुसि अचकासुः । " व्यअनाद् देः०" ४।३।७८ इति देलकि सस्य दत्वे च, सः अचकात् । “सेः स्द्धां०" ४।३।७९ इति सेलुकि सो वा रुत्वे च अचकाः त्वम् , पक्षे " धुट०" २११७६ इति सस्य दत्वे अचकात् त्वम् । “ धातोरनेक."