________________
१७२
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३१इटि अनिति । " द्वित्वेऽप्यन्तेऽप्य० ॥ २॥३८१ इति णत्वे प्राणिति, पराणिति, प्राणिणिषति । अन्तेऽपि इति वचनात् विवपि हे प्राण ! हे पराण ! परेस्तु वा पर्यणिति, पर्यनिति । “ अस्यादे." ४।१।६८ इति पूर्वस्य आत्वे आन, आनतुः । "दिस्यो०" ४४८९ इति ईटि प्राणी , प्राणीः । “अदश्चा०" ४४९० इत्यटि प्राणत् । प्राणः, प्राणिता, प्राणितुम् । अचि धनि वा प्राणः । घनि आनः । उणादौ " स्यमिकषि" ( उ० ४६ ) इति ईके अनीकम् । “प्याधा." (उ० २५८) इति ने अन्नम् । " स्थाछा०" (उ० ३५७ ) इति ये अन्यः । “अस्" ( उ० ९५२ ) इत्यसि अनः शकटम् ॥
___ ३२ श्वसन' । तालव्यादिः दन्त्यान्तः । “रुत्पञ्चका०" ४।४।८८ इति इटि श्वसिति, निःश्वसिति, श्वसितः, श्वसन्ति, शश्वास । " व्यअनादे." ४।३।४७ इति वा वृद्धौ अश्वासीत् , अश्वसीत् । “ दिस्यो." ४।४।८९ इति ईटि अश्वसीत् , अश्वसीः; “ अदवा०" ४।४।९० इत्यटि अश्वसत् , अश्वसः । श्वसिता, श्वसितुम् । “ श्वसजप०" ४४७५ इति क्तयोर्वेट् , आश्वस्तः, आश्वसितः, आश्वस्तवान् , आश्वसितवान् । “ तन्व्यधी०" ५।११६४ इति णे श्वासः ।।
'३३ जक्षक् भक्ष-हसनयोः' । अयं रुत्पश्चकस्य पञ्चमो, जक्षपञ्चकस्य त्वाद्य इत्युभयकार्यभाक् । “रुत्पञ्चका०" ४।४।८८ इति इटि जक्षिति जक्षितः । " द्वयुक्तजक्ष०" ४।२।९३ इति शिदनः पुसि अजक्षुः । “अन्तो नो लुक्" ४।२।९४ जक्षति, जक्षतु, शतरि जक्षत् । “शौ वा” ४।२।९५ जक्षति, जक्षन्ति कुलानि । " दिस्यो० " ४।४।८९ इति ईटि अजक्षीत् , अजक्षीः । “ अदवा०" ४।४।९० इत्यटि अजक्षत् , अजक्षः । जक्षिता, जक्षितुम् , जजक्ष, जजक्षतुः ॥
'३४ दरिद्राक् दुर्गतौ' । दरिद्राति । " इर्दरिद्रः" ४।२।९८ दरिद्रितः । अन्तो नो लुकि " नश्वातः " ४।२।९६ इत्याल्लुकि च दरिद्रति । “दरिद्रोऽद्यतन्यां वा" ४।३।७६ अदरिद्रीत् अदरिद्रासीत् । “अशित्यस्सन्" ४।३।७७ इत्याल्लुकि दरिद्रयते, स्मन्नादिवर्जनात् दिदरिद्रासति । " इवृध० " ४।४।४७ इति वेटि दिदरिद्विषति, सादेरेव सनो वर्जनात् इहाल्लुक् । दरिद्रायको व्रजति, अत्र “क्रियायां०" ५।३।१३ इति णकच । णके दरिद्रायकः । अनटि दरिद्राणम् । शतरि दरिद्रत् , दरिद्रतौ । “ धातोरनेकस्वरा० " ३।४।४६ इत्यामि
१. स्सनादि इति मु० ॥