SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १५ ] धातुपारायणे अदादयः (२) के राका पूर्णिमा । " राशदि०" (उ० ६९६) इति त्रौ रात्रिः । “राते:" (उ० ८६६) राः धनम् ॥ १२ दांवक् लवने' । वकारः "अवौदाधौदा" ३३.५ इति विशेषणार्थः । दाति क्षेत्रम् , दायन्ते व्रीहयः । अत्र “अबौ०" ३३५ इति अत्र वितो वर्जनाद् दासंज्ञाया अभावे " ईय॑अने० " ४३९७ इति ईन भवति । अनुस्वारेवान्नेट , दाता, दातुम् । “ नीदाव्०" ५।२।८८ इति करणे त्रुटि दात्रम् ॥ __ १३ ख्यांक प्रथने' । प्रकथने इत्यन्ये । ख्याति, आचख्यौ । “शास्त्यसूवक्ति " ३।४।६० इत्यङि आख्यत् । “समः ख्यः" ५।११७७ इति डे अश्वसंख्यः । “दश्चाङः " ५।११७८ इति डे स्याख्यः । “ व्यअनान्तस्था." ४।२।७१ इन्यत्र ख्यावर्जनात् तस्य नत्वाभावे ख्यातः । सखा इति तु “सनेडेखिः" ( उ० ६२५ ) इति डखौ । अनुस्वारेच्चान्नेट् , आख्याता आख्यातुम् ॥ १४ प्रांक पूरणे' । प्राति, पौ। अनुस्वारेच्चान्नेट् , प्राता । क्ते " व्यञ्जनान्तस्था० " ४।२।७१ इति तस्य नत्वे प्राणः । “आतो डो०" ५।१७६ इति डे गोष्पदप्रं वृष्टो देवः । एकेन गोष्पदप्रेण ॥ १५ मांक माने ' । मानं वर्तनम् । माति पात्रे । “ नेमादा०" २३७९इत्यत्र अॅापलक्षितस्य मो ग्रहणान्नेर्णत्वाभावे प्रनिमाति । अत्राऽपीच्छन्त्येक प्रणिमाति । क्ये "ईय॑अने" ४।३।९७। इति ईत्वे मीयते । मातेः ईत्वं नेच्छन्त्येके; तन्मते मायते, ममौ । अनुस्वारेवान्नेट् , माता, मातुम् । सनि "मिमी." ४।१।२०। इति स्वरस्येति मित्सति ये तु अस्य इवं नेच्छन्ति तन्मते मिमासति । "दोसोमा०" ४।४।११॥ इति इति मितः, मितवान् । मातेः इत्वं नेच्छन्त्येके, तन्मते मातः, मातवान् । शतरि “ अवर्णादश्नो०" २१११११५। इति वाऽन्तादेशे माती मान्ती स्त्री कुले वा । उणादौ "स्थाछा." ( उ० ३५७ ) इति ये माया । " हुयामा०" ( उ० ४५१) इति त्रे मात्रा । " शामा०" ( उ० ४६२) इति ले माला । " मावावद्य०" ( उ० ५६४ ) इति से मास: । मेरुः इति तु 'मीनातेः “चिनीपी०" ( उ० ८०६) इति रौ । चन्द्रमा इत्यपि चन्दो रमसि । [चन्दो रमस् (उ० ९८६) ] ॥ १. “ मीनातेर्मीयतेर्वा चिनीपी०" इति प० प्रतौ । उणादि विवरणे तु मीच् हिंसायाम् इत्यस्माद् धातो: मेरुः शब्दः साधित: ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy