________________
आचार्यश्रीहेमचन्द्रविरचिते [ धा० १६ अथेदन्तावनिटौ च ॥ * १६ इंक् स्मरणे' । " स्मृत्यर्थ० " २।२।११॥ इति वा कर्मणः कर्मत्वे "शेषे" २।२।८१॥ इति षष्ठयां मातुरध्येति, मातरमध्येति । " इको वा " ४।३।१६। इति वा यत्वे अघियन्ति । पक्षे इयादेशे अधीयन्ति । " इणिकोर्गाः" ४।४।२३। इति गाऽऽदेशे " पिवैति० " ४।३।६६। इति सिलुपि च अध्यगात् । “ क्रियाव्यतिहारे० " ३।३।२३। इत्यात्मनेपदे व्यत्यध्यगास्त । " भावकर्मणोः " ३।४।६८। इति जिचि अध्यगायि । अधीयाय, अधीयतुः । अनुस्वारेचान्नेट , अध्येता, अध्येतुम् । " सनीङश्च" ४।४।२५। इति गमुः, अधिजिगमिषति । " णावज्ञाने गमुः" ४।४।२४। अधिगमयति । वित्व अधीत्य । कित्करणम् "इको वा" ४।३।१६। इत्यादौ विशेषणार्थ गणज्ञापनार्थ च । इङिको अधिना एवं प्रयुज्यते ॥
१७ इंण्क् गतौ' । णित्त्वं " इणः " २।११५१ इत्यादौ विशेषणार्थम् । एति । " उपसर्गस्यानिणे०॥ १।२।१९। इत्यत्र इणो वर्जनाद् उपसर्गावर्णस्य लुगभावे उपैति, परैति । “विणो०" ४।३।१५। इति यत्वे यन्ति, यन्तु । " इणिकोर्गाः" ४।४।२३। इति गाऽऽदेशे " पिवैति०" ४।३।६६। इति सिज्लुपि च अगात् । “ सिज्विदो०" ४।२।९२॥ इति अनः पुसि " इडेत्० " ४।३।९४। इति आतो लुकि च अगुः । “योऽनेकस्वर०" २११५६ इति यत्वापवादे, " इणः" २।१५१ इति इयादेशे ईयतुः, ईयुः । “ आशिपीणः" ४।३।१०७ इति ह्रस्वे समियात् । " णावज्ञाने गमुः" ४।४।२४ गमयति ग्रामम् । ज्ञाने तु शब्दः अर्थ प्रत्याययति । “सनीङश्च" ४।४।२५ जिगमिषति ग्रामम् । ज्ञाने तु अर्थान् प्रतीषिषति । अनुस्वारेवान्नेट , एता, एतुम् । क्ये " दीर्घश्चय " ४।३।१०८ इति दीर्घ ईयते । थवि "सृजिद शि०" ४।४७८ इति वेटि इयेथ इययिथ । "ग" ५।१।४० इति यापवादे क्यपि इत्यः । "तन्व्यधी०" ५।१।६४ इति णे अत्यायः, प्रत्यायः । लिहायचि अयः, समयः, प्रत्ययः । “गत्यर्था० " ५।१।११ इति वा कर्तरि क्ते मार्गमतीतः । “वेयिवद०" ५।२।३ इति निपातनाद् भूतमात्र क्वसौ नित्यत्वाद् द्वित्वात् प्रागेव “घसेकस्वरा०" ४।४।८२ इति इटि ईयिवान् , समीयिवान् , उपेयिवान् । “जीणदक्षि०" ५।२।७२ इति इनि अत्ययनशील: अत्ययी । " सृजीण" ५।२।७७ इति वरपि इत्वरः,
१. मातुर इति मु० ॥ २. अयुः इति मु० ।।