________________
आचार्यश्रीहेमचन्द्रविरचिते [ धा० १०१९_१०१९ चक तृप्तौ च' । चकारात् प्रतीपाते । चकति । णौ घटादित्वाद् हस्वे चकयति । क्ते चकितः । उणादौ " कठिचकि० " ( उ० ४३३) इत्योरे चकोर: । चकि तृप्तिप्रतीघातयोः [ ११६२१ ], चकते ॥
___१०२० अक कुटिलायां गतौ' । अकति । णौ घटादित्वाद् इस्वे अकयति । अनोकह इति तु अनिते: 'ओकहे ॥
___ अथ खान्तः ॥ १०२१ कखे हसने ' । कखति । एदिस्वाद् " व्यञ्जनादे०" ४३४७ इति वा वृद्धः "न विजागृ०" ४।३।४९ इति प्रतिषेधे अकखीत् । णौ घटादित्वाद् हुस्वे कखयति । किखिः इति तु " कोडिखिः " ( उ० ६२६ ) इति कौतेः ।।
अथ गान्ता नव सेटश्च ॥ १०२२ अग अकवत्' । अक कुटिलायां गतौ पठितः, अयमपि तदर्थों लाघवार्थ तथा निर्दिश्यते, अगति । णो घटादित्वाद् इस्वे अगयति । उणादौ " भीवृधि० " ( उ० ३८७ ) इति रे अग्रम् । “बीयुसुवा० " ( उ० ६७७ ) इति नौ अग्निः ॥
१०२३ रगे शङ्कायाम् ' । रगति । एदिचाद् " व्यअनादे०" ४।३।४७ इति वा वृद्धः, “न विजागृ०" ४।३।४९ इति प्रतिषेधे अरगीत् । णो घटादित्वाद् हुस्वे रगयति ॥
१०२४ लगे सङ्गे' । लगति । एदिचाद् " व्यअनादे०" ४।३।४७ इति वा वृद्धः, “न विजागृ०" ४।३।४९ इति प्रतिषेधे अलगीत् । णौ घटादित्वाद् हस्वे लगयति । " क्षुब्धविधि" ४४ ७० इति क्त निपातनाद् लग्नः सक्तः । लगितः अन्यः ॥
१०२५ हुगे १०२६ हगे १०२७ पगे १०२८ सगे १०२९ ठगे १०३० स्थगे संवरणे' । संवरणम् आच्छादनम् । हगति । एदिवाद् " व्यजनादे." ४।३।४७ इति वा वृद्धः "न विजागृ." ४।३।४९ इति प्रतिषेधे अह गीत । णौ घटादित्वाद् ह्रस्वे हगयति ॥
'१०२६ हगे' । हगति, अहगीत् , हगयति ॥ १ " अनेरोकहः” ( उ० ५९५) इत्यनेन ॥