________________
१०३६ ] धातु पारायणे भ्वादयः (१)
१५७ '१०२७ पगे' । “षः सो." ॥३९८ इति सत्वे सगति, असगीत , सगयति । पोपदेशत्वात् पत्वे सिषगयिषति ॥
“१०२८ सगे' । सगति, असगीत , सगयति, सिसगयिषति ॥
'१०२९ ठगे' । “षः सो०" २।३९८ इति सत्वे स्थगति, अस्थगीत् , स्थगयति । पोपदेशत्वात् पत्वे तिष्ठगयिषति ॥
'१०३० स्थगे' । स्थगति, अस्थगीत् , स्थगयति । षत्वाभावे तिस्थगयिषति ॥
अथ टान्तास्त्रयः सेटश्च ॥ '१०३१ वट १०३२ भट परिभाषणे'। वटति, वटयति । भटति, मटयति । वट वेष्टने [१।१७६ ], वाटयति । भट भृतौ [ १११८४ ], भाटयति ॥
'१०३३ णट नतो' । नटति । घटादित्वाद् हुम्वे नटयति शाखाम् । नृतौ तु नाटयति । नटण अवस्यन्दने [ ९।२६ ], चौरस्योबाटयति ॥
अथ डान्तास्त्रयः सेटश्च ॥ १०३४ गड सेचने' । गडति । लत्वे गलति । णौ घटादित्वाद् हस्वे गडयति । अचि गडयतीति गडः । “ सुखं स्वपिति गौगडी" [ । उणादौ " तृजिभूवदि०" ( उ० २२१) इत्यन्ते गडयन्तः, गडयन्ती । कडार इति तु कडतेः " अग्यङ्गि० " ( उ० ४०५) इत्यारे । कडत्रम् कलत्रम् इत्यपि " वृगनक्षि०" ( उ० ४५६) इत्यत्रेऽस्यैव ॥
· १०३५ हेड वेष्टने' । हेडति, जिहेड, हेडिता । णौ घटादित्वाद् इस्वे हिडयति; हूस्वविधानवलादेव गुणो नास्ति । त्रिणम्परे तु वा दीर्षे अहीडि, अहिडि, हीडंहीडम् , हिडंहिडम् । ये तु णौ त्रिणम्परे ह्रस्वमेव विकल्पयन्ति, तन्मते अहिडि, अहेडि, हिडंहिडम् , हेडंहेडम् ॥
'१०३६ लड जिह्वोन्मन्थने ' । जिह्वाया उन्मन्थनम् जिह्वोन्मन्थनम् । णौ घटादित्वाद् ह स्वे लडयति जिह्वां कुक्कुरः । लत्वे 'जिह्वाशतान्युल्ललयत्यभीक्ष्णम् ' [ ] । अन्यत्र लाडयति चित्रम् । लालयति बालम् । लालितः । लालि. तकः सेवकः । लालना । लाला । जिबोन्मन्थनयोः इत्येके, 'तन्मतसङ्ग्रहार्थ जिह्वा
१ तन्मते इति मु० ॥