________________
१०१८ ] धातुपारायणे भ्वादयः (१)
अथ क्षान्तः ॥ '१०१२ दक्षि हिंसागत्योः' । दक्षते, ददक्षे, दक्षिता । "क्तेटो." ५।३।१०६ इत्यः, दक्षा । दक्षि शैये च इति अस्यैवार्थभेदाद् घटादिकार्याथं पुनः पाठ: । णौ दक्षयति । त्रिणम्परे तु वा दीर्घः, अदाक्षि, अदक्षि, दाक्षंदाक्षम् , दक्षंदक्षम् ॥
__ अथ परस्मैपदिनः ॥ ___१०१३ श्रां पाके' । अँ पाके, श्रांक पाके इत्यस्य चेह घटादिकार्थ पाठः । श्रायति श्राति वा कश्चित् तमन्यः प्रयुक्ते, अपयति । श्रायति श्राति वा हविः स्वयमेव, तदन्येन प्रायुज्यते इति णौ घटादित्वाद् इस्वे क्ते "श्रपेः प्रयोकुवैक्ये " ४।१।१०१ इति शतादेशे शृतं हविः क्षीरं वा चैत्रेण । अन्यत्र श्रापयति धर्मः स्वेदयति इत्यर्थः । अत एव ज्ञापकादनेकार्थत्वं धातूनां सिद्धम् ॥
- अथ ऋदन्तः ॥ १०१४ स्मृ आध्याने ' । आध्यानम् उक्तं वा स्मरति । घटादित्वाद् हस्वे स्मरयति । आध्यानादन्यत्र चित्तं स्मारयति, विस्मारयति । अन्यत्रोक्तस्यार्थविशेषे घटादिकार्यार्थमिह पाठः ॥
. अथ ऋदन्तौ ॥ '१०१५ ८ भये' । दरति । “युवर्ण० " ५।३।२८ इत्यलि दरः । णौ घटादित्वाद् ह्रस्वे दरयति बलम् । भयादन्यत्र काष्ठ दारयति । उणादौ " शृढ० " ( उ० ८९४ ) इत्यदि दरनाम्ना जनपदः । दृश् विदारणे [ ८१२८ ], दृणाति, दारयति काष्ठम् । अस्यैव घटादिकार्यार्थमिह पाठ इत्यन्ये । दीर्यते इति कमकर्तरि दिवादो अपि अयम् अन्यैः पठ्यते, तन्मते कर्तर्यपि दीर्यते ॥
'१०१६ नृ नये' । क्रयादेः घटादिकार्यार्थ विरलोऽस्य पाठः । नृगन्तं प्रयुङ्क्ते, नरयति ॥
अथ कान्ताश्चत्वारः सेटश्च ॥ १०१७ टक १०१८ स्तक प्रतीपाते' । “पः सो०" २।३।९८ इति सत्वे स्तकति । णौ घटादित्वाद् द्वस्वे सनि पोपदेशत्वात् षत्वे तिष्टकयिषति ॥ ___१०१८ स्तक' । स्तकति । णौ घटादित्वाद् ह्रस्वे पोपदेशत्वात् पत्वाभावे तिस्तकथिषति ॥